________________
CO
प्रव० सा०
रोद्धार तत्त्वज्ञानवि०
॥२६३॥
R-CHAMROSAGAOSS
पात्वं मृतेषु सत्यत्वात् जीवत्सु च मृषात्वात् ५ तथा तस्मिन्नेव राशौ एतावन्तोऽत्र जीवन्ति एतावन्तोऽत्र मृता इति नियमेनावधारयतो १३९द्वारे विसंवादे जीवाजीवमिश्रिता ६ तथा मूलकादिकमनन्तकायं तस्यैव सत्कैः परिपाण्डुपत्रैरन्येन वा केनचित्प्रत्येकवनस्पतिना मिश्रमव- भाषाचलोक्य सर्वोऽप्येषोऽनन्तकायिक इति वदतोऽनन्तमिश्रिता ७ तथा प्रत्येकवनस्पतिसङ्घातमनन्तकायिकेन सह राशीकृतमवलोक्य प्रत्येक- तुष्कम् वनस्पतिरयं सर्वोऽपीति वदतः प्रत्येकमिश्रिता ८ तथा अद्धा-कालः, स चेह प्रस्तावाद्दिवसो रात्रिर्वा परिगृह्यते, स मिश्रितो यया सा अद्धामिश्रिता, यथा कश्चित्कञ्चन त्वरयन् दिवसे वर्तमान एव वदति- उत्तिष्ठ २ रात्रिर्जातेति, रात्रौ वा वर्तमानायामुत्तिष्ठ २ दिवसो| जात इति ९ तथा दिवसस्य रात्रेर्वा एकदेशोऽद्धाद्धा, सा मिश्रिता यया सा अद्धाद्धामिश्रिता, यथा प्रथमपौरुष्यामेव वर्तमानायां क|श्चित् कञ्चन त्वरयन्नेवं वदति-चल चल मध्याह्नो जात इति १० ।। ८९३ ॥ अथ चतुर्थभाषाया असत्यामृषाया भेदानाह-'आमंत्रणी'त्यादि, आमश्रण्यादिभेदादसत्यामृषा भाषा द्वादशभेदा भवति, तत्र आमन्त्रणी हे देवदत्त ! इत्यादि, एषा हि प्रागुक्तसत्यादिभाषाप्रयलक्षणविकलत्वान्न सत्या न मृषा नापि सत्यामृपा, केवलं व्यवहारमात्रप्रवृत्तिहेतुरित्यसत्यामृषा १ एवं सर्वत्रापि भावना कार्या, आज्ञापनी-कार्ये परस्य प्रवर्तन, यथेदं कुर्विति २ याचनी कस्यापि वस्तुविशेषस्य देहीति मार्गणं ३ प्रच्छनी अविज्ञातस्य सन्दिग्धस्य वा कस्यचिदर्थस्य परिज्ञानाय तद्विदः पार्श्वे कथमेतदिति प्रच्छनं ४ प्रज्ञापनी विनेयजनस्योपदेशदानं, यथा प्राणिवधानिवृत्ता भवन्ति भवान्तरे प्राणिनो दीर्घायुष इत्यादि ५ प्रत्याख्यानी-याचमानस्य प्रतिषेधवचनं ६ इच्छानुलोमा नाम यथा कश्चित् किश्चन कार्यमारभमाणः कश्चन पृच्छति, स प्राह-करोतु भवान् ममाप्येतदभिप्रेतमिति ७ अनभिगृहीता-यत्र न प्रतिनियतार्थावधारणं, यथा बहुषु का-18|| येषूपस्थितेषु कश्चित् कश्चन पृच्छति-किमिदानीं करोमि?, स प्राह-यत्प्रतिभासते तत्कुर्विति ८ अमिगृहीता-प्रतिनियतार्थावधारणं,
in Education International
For Private Personel Use Only
www.jainelibrary.org