________________
MC-OCOCC-964
है स्वच्छंदघटितविकल्परूपा लौकिकाचरिता, यथा-'न सन्त्यनपत्यस्य लोकाः श्वानो यक्षाः विप्रा देवाः काकाः पितामहाः बहिणां पक्ष
वातेन गर्भ इत्यादिका' इति, अपरे तु ज्ञानोपयोग ओघसंज्ञा दर्शनोपयोगो लोकसंज्ञेत्येवमाहुः, एते दशापि 'अयं जीव इति संज्ञानहेतुत्वात् संज्ञाः सर्वेषां संसारिजीवानां ज्ञेयाः, सुखप्रतिपत्तये च स्पष्टरूपाः पञ्चेन्द्रियानधिकृत्य व्याख्याताः, एकेन्द्रियादीनां त्वेता अव्यक्त| रूपा अवगन्तव्या इति १४६ ॥ ९२४ ।। इदानीं 'सन्नाओ पन्नरसे'ति सप्तचत्वारिंशदधिकशततमं द्वारमाह
आहार १ भय २ परिग्गह ३ मेहुण ४ सुह ५ दुक्ख ६ मोह ७ वितिगिच्छा ८ । तह कोह ९ माण १० माया ११ लोहे १२ लोगे य १३ धम्मो १४ घे १५॥ ९२५ ॥ प्रक्रमायातस्य संज्ञाशब्दस्य प्रत्येकममिसम्बन्धादाहारसंज्ञादय ओघसंज्ञापर्यन्ताः पञ्चदश संज्ञा भवन्ति, तत्र दश पूर्वोक्तस्वरूपा एव, सुखदुःखसंज्ञे-सातासातानुभवरूपे मोहसंज्ञा-मिथ्यादर्शनरूपा विचिकित्सासंज्ञा-चित्तविप्लुतिलक्षणा धर्मसंज्ञा-क्षमाद्यासेवनस्वरूपा, एताश्च विशेषानुपादानाद्यथासम्भवं सर्वजीवानामवसेयाः, इह कचिद् अन्थे चतुर्विधाः संज्ञाः उक्ताः कचिद्दशविधाः कचित् तु पञ्चदशविधाः ततः कासाच्चित्पुनर्भणनेऽपि न पौनरुक्त्यमाशङ्कनीयं, तथा आचाराने विप्रलापवैमनस्यरूपां शोकसंज्ञा प्रक्षिप्य षोडश संज्ञाः प्रतिपादिता इति १४७ ।। ९२५ ॥ इदानीं 'सत्तसट्ठिलक्खणभेयविसुद्धं सम्मत्तंति अष्टचत्वारिंशदधिकशततमं द्वारमाह
चउसद्दहण ४ तिलिंगं ३ दसविणय १०तिसुद्धि ३ पंचगयदोसं ५। अट्ठपभावण ८ भूसण ५लक्खण ५ पंचविहसंजुत्तं ॥ ९२६ ॥ छबिहजयणा ६ ऽऽगारं ६ छन्भावण ६ भावियं च छट्ठाणं ६। इय सत्तयसट्टिलक्खणभेयविसुद्धं च सम्मत्तं॥९२७॥ परमत्थसंथवो वा १ सुदिपरमत्थसे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org