________________
प्रव० सा- रोद्धारे तत्त्वज्ञानवि०
॥४४७॥
स्पर्शा अष्टौ गुरुलघुमृदुकर्कशशीतोष्णस्निग्धरूक्षभेदात् , बेदास्त्रयः स्त्रीपुंनपुंसकभेदात् , तथा सिद्धा अकाया-औदारिकादिकायपश्चक-16 २७६ | विप्रमुक्ताः तेषां सिद्धत्वप्रथमसमय एव सर्वात्मना व्यक्तत्वात् , तथा असङ्गा-बाह्याभ्यन्तरसङ्गरहितत्वात् , तथा अरुहा-- रोहन्ति सिद्धगुणाः
भूयः संसारे समुत्पद्यन्ते इत्यरुहाः, संसारकारणानां कर्मणां निर्मूलकापंकषितत्वात् , उक्तं च-"दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति गा. | नाङ्कुरः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः ॥१॥" तदेवमष्टाविंशतिसङ्ख्यानां संस्थानादीनां निषेधादकायत्वासङ्गत्वारुहत्ववि- १५९३-४ |धानाच सिद्धानामेकत्रिंशद्गुणा भवन्ति । संस्थानाद्यभावाकायत्वादिसद्भावौ च सिद्धानां सुप्रसिद्धावेव, तथा चाचाराने-"से न दीहे न वट्टे न तसे न चउरंसे न परिमंडले न किण्हे न नीले न लोहिए न हालिहे न सुकिले न सुब्भिगंधे न दुभिगंधे न तित्ते न कडुए न कसाए न अंबिले न महुरे न कक्खड़े न मउए न गरुए न लहुए न सीए न उण्हे न निद्धे न लुक्खे न काए न संगे न रुहे न | इत्थीए न पुरिसे न नपुंसे" इत्यादि, एतच्च सिद्धगुणप्रतिपादकद्वार प्रकृष्टमङ्गलभूतं शास्त्रस्य शिष्यप्रशिष्यादिवंशगतत्वेनाव्यवच्छित्तिर्भूयादिति अन्तमङ्गलत्वेन पर्यन्ते सूत्रकारेणोपन्यस्तमिति २७६ ॥ ९३ ॥ ९४ ॥ तदेवं व्याख्यातानि षट्सप्तत्यधिकद्विशतसङ्ख्यानि द्वाराणि, तद्व्याख्यानाच समर्थितः समनोऽप्ययं प्रन्थः ॥ सांप्रतं प्रस्तुतप्रकरणकर्ता निजान्वयप्रकटनपूर्वकं खकीयं नाम प्रदर्शयन्नेतत्प्रकरणे कारणमात्मनोऽनुद्धतत्वं च प्रतिपादयितुमाह
धम्मधुरधरणमहावराहजिणचंदसूरिसिस्साणं । सिरिअम्मएवसरीण पायपंकयपराएहिं ॥९५॥ सिरिविजयसेणगणहरकणिट्ठजसदेवसूरिजिडेहिं । सूरिनेमिचंदमूरिहिं सविणयं सिस्समणिएहिं ॥९॥ समयरयणायराओ रयणाणं पिव समत्थदाराई। निउणनिहालणपुवं गहि संजसि
AAAAAAAA
HI॥४४७॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org