________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयकषायोदये विरत्यभावमाह
( पारमा० ) एतद्व्याख्या च गुणस्थानाख्यानात्सुज्ञाना इति गुणस्थाननामस्वरूप प्ररूपणाय शास्त्रान्तरश्लोकाः । तथाहि - " मिथ्यादृष्टिः १ सास्वादन २- सम्यग्मिथ्यादृशावपि ३ । अविरतसम्यग्दृष्टिः ४, विरताविरतोऽपि च ५ ॥ १ ॥ प्रमत्तश्चा ६ ऽप्रमत्तश्च ७, निवृत्तिबादरस्ततः ८ । अनिवृत्तिवादर ९ श्चा-Sथ सूक्ष्मसंपरायकः १० ॥ २ ॥ ततः प्रशान्तमोहश्च ११, क्षीणमोहश्च १२ योगवान् १३ । अयोगवानिति १४ गुण-स्थानानि स्युश्चतुर्दश ॥ ३ ॥ मिथ्यादृष्टिर्भवेन्मिथ्या दर्शनस्योदये सति । गुणस्थानत्वमेतस्य, भद्रकत्वाद्यपेक्षया १ ॥ ४ ॥ मिथ्यात्वस्यानुदयेऽन-न्तानुबन्ध्युदये |सति । सास्वादनसम्यग्दृष्टिः, स्यादुत्कर्षात्पडावली २ ॥ ५ ॥ सम्यक्त्वमिथ्यात्वयोगात्, मुहूर्त मिश्रदर्शनः ३ । अविरतसम्यग्दृष्टि-रप्रत्याख्यानकोदये ४ ॥ ६ ॥ विरताविरतस्तु स्यात् प्रत्याख्यानोदये सति ५ । प्रमत्तसंयतः प्राप्त - संयमो यः प्रमाद्यति ६ ॥ ७ ॥ सोऽप्रमत्तसंयतो यः, संयमे न प्रमाद्यति ७ । उभावपि परावृत्त्या, स्यातामान्त मौहूर्तिको ॥ ८ ॥ कर्मणां स्थितिघातादी -नपूर्वान् कुरुते यतः । तस्मादपूर्वकरणः क्षपकः शमकश्च सः ॥ ९ ॥ यद्वादरकषायाणां प्रविष्टानामिमं मिथः । परिणामा निवर्तन्ते, निवृत्तिबादरोऽपि तत् ८ ॥ १० ॥ परिणामा निवर्तन्ते, मिथो यत्र न यत्ततः । अनिवृत्तिबादरः स्यात्, क्षपकः शमकश्च सः ९ ॥ ११ ॥ लोभाभिधः संपरायः, सूक्ष्मकिट्टीकृतो यतः । स सूक्ष्मसंपरायः स्यात्, क्षपकः शमकोऽपि च १० ॥ १२ ॥ अथोपशान्तमोहः स्यात्, मोहस्योपशमे सति ११ । मोहस्य तु क्षये
For Private And Personal Use Only