________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शस्तम् । 'प्रयतः' आदरपरः 'प्रणम्य' प्रणिपत्य 'जिनपा पार्श्वतीर्थकरमिति ॥१॥ ततो वक्ष्यामि' अभिधास्ये, स्थानशब्दस्य प्रत्येकमभिसंबन्धाजीवस्थानानि च सूक्ष्मापर्याप्सकैकेन्द्रियादीनि, मार्गणास्थानानि च गत्यादीनि, गुणस्थानकानि च मिथ्यावादीनि, उपयोगाश्च मतिज्ञानादयः, योगाश्च मनाप्रभृतयः, लेश्याश्च कृष्णलेश्याद्याः, ता आदिःप्रभृतिर्यस्य तत्तथा । आदिशब्दात् कर्मबन्धोदयोदीरणासत्तास्थानाल्पवहुत्ववन्धहेतुपरिग्रहः किंचिदित्यल्पं न विस्तरतः क्रियाविशेषणमिदम् । 'सुगुरूपदेशात् सदाचार्यहेयोपादेयायप्रतिपादनलक्षणात्, संज्ञानं च विशिष्ठावबोधः सुध्यार्न च धर्मध्यानादि संज्ञानसुध्याने तयोर्हेतुः कारणमितिकृत्वा । तंत्र प्रथमगाथया मङ्गलम् , द्वितीयया तु जीवस्थानायभिधेयम् । सुगुरूपदेशादिति पदसूचितों गुरुपर्वक्रमलक्षणः संवन्धः। संज्ञानसुध्यानहेतुरितिवचनाभ्यूँहितं प्रयोजनमिति भावनीयम् । इह च जीवस्थानाद्यभिधेयजातं यद्यपि सामान्यतः प्रोक्तं तथाऽपि जीवस्थानेषु गुणस्थान १ योगो २ पयोग ३ लेश्या ४ बन्धो ५ दयो ६ दीरणा ७ सत्तास्थाना ८ ख्यान्यष्टौ । तथा मार्गणास्थानेषु जीवस्थानक १ गुणस्थानक २ योगो३ पयोग ४ लेश्याऽ५ल्पबहुत्व ६ रूपाणि षटू । तथा गुणस्थानकेषु जीवस्थान १ योगो २ पयोग ३ लेश्या ४ बन्धहेतु ५बन्धोदयो ७ दीरणा ८ सत्तास्थाना ९ऽल्पबहुत्व १० लक्षणानि दश पदान्यभिधेयतया मन्तव्यानि । व्याख्यानतो विशेषप्रतिपत्तेरिति । इहाष्टपदादिसंग्रहार्थमिदं गाथात्रयं श्रोतृजनमुखार्थ कथ्यते । तद्यथा-"चउदसजियठाणेसुं, गुणजोगुवओगलेसबंधुदया । उद्दीरणा य सत्ता, वत्तवा अट्ठपय
BENGAARA
For Private And Personal Use Only