Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsur Gyanmandir
ACCESSAGEEG
दष्टयोजनोच्छितचतुर्दादशोपर्यधोविस्तृतप्राकारतदुपरिपञ्चधनु-शतविस्तृतद्विगव्यूतोच्छूितवेदिकान्तसहिताश्चत्वारः पल्याः कल्प्यन्ते । तत्र प्रथमोऽनवस्थितपल्यः । द्वितीयः शलाकापल्यः। तृतीयः प्रतिशलाकापल्यः । चतुर्थो महाशलाकापल्यः।। प्रथमपल्यश्चानवस्थितनामा सशिखाकः सर्षपैरापूर्यते, यावदेकोऽप्यन्यः सर्षपस्तत्र प्रक्षिप्तः सन् नावस्थातुं शक्नोति । ततोऽसत्कल्पनया कश्चनापि देवो वा दानवो वा तमनवस्थितं पल्यं वामकरतले धृत्वैकं सर्पपं द्वीपे प्रक्षिपेत् एकं समुद्रे पुनरप्येक द्वीपे एक समुद्रे, एवं तावत्प्रक्षेपो वाच्यो यावदसावनवस्थितपल्यो निःशेषतो निष्ठितो भवति, तत एकोऽनवस्थितपल्यसत्कसर्षपेभ्योऽन्य एव सर्षपः शलाकापल्ये प्रक्षिप्यते, ततो यत्र द्वीपे समुद्रे वाऽसौ अनवस्थितपल्यो निष्ठां गतः, तदन्ता ये द्वीपसमुद्रास्तावत्प्रमाणः पुनरन्यः पल्यः परिकल्प्यते । सोऽप्यधोयोजनसहस्रमवगाढ उपरिष्टाद्यथोक्तजगतीवेदिकापरिकलितः सशिखाकः सर्षपैरापूर्यते । ततस्तमुत्पाख्य यस्मिन् द्वीपे समुद्रे वा प्रथमः पल्यो निष्ठितस्ततः परतो द्वीपसमुद्रेष्वेकैकं सर्पपं प्रक्षिपेत्तावद् यावदसौ निर्लेपो भवति । ततः शलाकापल्ये द्वितीया सर्षपरूपा शलाका प्रक्षि-14 प्यते । अन्ये त्वाः -एषैव प्रथमा शलाकेति । तत्त्वं पुनः केवलिनो विदन्ति । ततो यस्मिन् द्वीपे समुद्रे वा स एष | द्वितीयः पल्यो निष्ठितस्तदन्ता मूलतः सर्वेऽपि ये द्वीपसमुद्रास्तावत्प्रमाणः पुनरन्यः पल्यः परिकल्प्यते, पूर्ववत्सर्षपैश्चा-15 पूर्यते । ततस्तं तावत्प्रमाणं पल्यमुत्पाव्य ततो निष्ठितस्थानात्परतो द्वीपसमुद्रेवेकै सर्पपं प्रक्षिपेद् यावदसौ निष्ठितो भवति । ततस्तृतीया सर्पपरूपा शलाका शलाकापल्ये प्रक्षिप्यते । एवमनेन क्रमेण पुनः पुनरनवस्थितपल्यसर्षपाऽऽपूरणरिक्तीकरणलब्धैकैकसर्षपरूपाभिः शलाकाभिः शलाकापल्यो यथोक्तप्रमाणः सशिखाकस्तावदापूरयितव्यो यावत्तत्रैको
RECARREARRAKA
For Private And Personal Use Only

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476