Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 433
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NCREACE% ACCSC ॥ अथ प्रशस्तिः ॥ प्रायोऽन्यशास्त्रदृष्टः, सर्वोऽप्यर्थों मयाऽत्र संचरितः।न पुनः खमनीषिकया, तथापि यत्किंचिदिह वितथम् ॥१॥ सूत्रमतिलक्ष्य लिखितं, तच्छोध्यं मय्यनुग्रहं कृत्वा । परकीयदोषगुणयोस्त्यागोपादानविधिकुशलैः ॥२॥ छमस्थस्य हि बुद्धिः, स्खलति न कस्येह कर्मवशगस्य । सद्बुद्धिविरहितानां, विशेषतो मद्विधासुमताम् ॥३॥ कृत्वा यत्तिमिमां, पुण्यं समुपार्जितं मया तेन । मुक्तिमचिरेण लभतां, क्षपितरजाः सर्वभव्यजनः॥४॥ मध्यस्थभावाचलप्रतिष्ठा, सुवर्णरूपः सुमनोनिवासः। अस्मिन्महामेरुरिवास्ति लोके, श्रीमान् वृहद्गच्छ इति प्रसिद्धः॥५॥ तस्मिन्नभूदायतबाहुशाखः कल्पदुमाभः प्रभुमानदेवः। यदीयवाचो विबुधैः सुबोधाः, कर्णेकृता नूतनमञ्जरीवत् ॥६॥ तस्मादुपाध्याय इहाजनिष्ट, श्रीमान्मनखी जिनदेवनामा। गुरुक्रमाराधयिताल्पबुद्धिस्तस्यास्ति शिष्यो हरिभद्रसूरिः॥७॥ अणहिल्लपाटकपुरे, श्रीमजयसिंहदेवनृपराज्ये । आशापूरवसत्यां, वृत्तिस्तेनेयमारचिता॥८॥ एकैकाक्षरगणनादस्या वृत्तेरनुहुभां मानम् । अष्टौ शतानि जातं, पञ्चाशत्समधिकानीति ८८५ ॥९॥ वर्षशतकादशके, दासप्तत्याधिके १९७२ नभोमासे । सितपश्चम्यां सूर्ये, समर्थिता वृत्तिकेयमिति ॥१०॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476