Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 432
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टाकाव्यापेतम् ॥ षडशीतिप्रकरणम्॥२०२॥ तदेवमभिहितं गुणस्थानकवर्तिनां जीवानामल्पबहुत्वम् , तदभिधानाच्च यत् 'वोच्छामि जीवमग्गण' इत्यादि प्राप्रतिज्ञात तदपि समर्थितम् । साम्प्रतं जिनवचनानुसारिप्रकरणमिदमित्येतत्प्रकरणश्रवणादिक्रियासु वर्तमानानां जीवानामेकान्तेन क्षा हितसंप्राप्तिमुत्प्रेक्षमाण आचार्यों निजान्वर्थनामोत्कीर्तनपूर्वकं जिनशासनगौरवख्यापनपूर्वकं च परेषामुपदेशमाहजिणवल्लहोवणीयं, जिणवयणामयसमुद्दबिंदुमिमं । हियकंखिणो बुहजणा,निसुणंतु गुणंतु जाणंतु ॥८॥ ॥ इति षडशीत्यपरपर्यायागमिकवस्तुविचारसारप्रकरणम् ॥ (हारि०) व्याख्या-जिनो वल्लभो यस्य स तथा तेनोपनीतस्तम् , इत्यनेन प्रकरणादेयतामाह-भवति हि यथोक्तान्वर्थनाम्ना पुरुषविशेषेणोपनीते वस्तुनि बुधजनानामादेयताबुद्धिः, एतदेव च प्रस्तुतप्रकरणकर्तुरभिधानम् । जिना रागादिवैरिवारजेतारः तेषां वचनमागमः तदेवामृतं त्रिदशाहारः तस्य समुद्र सिन्धुःतस्य बिन्दुरिवबिन्दुस्तम् । इमं प्रस्तुतप्रकरणरूपं हितकाङ्गिणः' मोक्षाभिलाषिणो 'वुधजना' पण्डित लोकाः 'निशृण्वन्तु' आकर्णयन्तु 'गुणयन्तु' परावर्तयन्तु 'जानन्तु' बुध्यताम् । इति गाथार्थः ॥८६॥ ॥इत्यागमिकवस्तुविचारसारप्रकरणवृत्तिः समाप्ता ॥ (मल०) सुगमम् ॥८६॥ ॥इति श्रीमन्मलयगिरिसूरिविरचिता पडशीतिप्रकरणवृत्तिः समाप्ता। PICSH- - For Private And Personal Use Only

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476