Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 422
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षडशीति प्रकरणम् ॥१९७|| तथाऽप्रमत्तस्य लब्ध्यनुपजीवनेनाहारकवैक्रियानारम्भादाहारकमिश्रवैक्रियमिश्रलक्षणे द्विके षडिंशतेरप्यपनीते शेषाश्चतु-19 टीकाद्वयोविशतिबन्धहेतवोऽप्रमत्तगुणस्थानके भवन्ति । अपूर्वकरणगुणस्थानके तु वैक्रियाहारके अपि न संभवतः, इत्यनन्तरो- * पेतम् ॥ कायाश्चतुर्विंशतेवेंक्रियाहारकरूपे द्विकेऽपनीते शेषा द्वाविंशतिबन्धहेतवः। तथा हास्यादिषट्कस्यापूर्वकरणगुणस्थानक एव व्यवच्छिन्नत्वादनिवृत्तिबादरसंपरायगुणस्थानके द्वाविंशतः षट्वेऽपनीते शेषाः षोडश बन्धहेतवो भवन्ति, ते च वेदत्रयसंज्वलनचतुष्टयौदारिककाययोगचतुर्विधाग्योगचतुर्विधमनोयोगरूपा द्रष्टव्याः। तथा सूक्ष्मसंपरायगुणस्थानके वेदत्रये क्रोधादित्रये चानिवृत्तिबादर एव व्यवच्छिन्नत्वात्षोडशकादपनीते शेषा दश बन्धहेतवो भवन्ति । उपशान्तमोहगुणस्थानके नव बन्धहेतवः, लोभस्य सूक्ष्मसंपराये व्यवच्छिन्नत्वात् अत एव क्षीणमोहगुणस्थानकेऽपि सयोगिकेवलिगुणस्थानके सत्यासत्यामृषामनोयोगसत्यासत्यामृषावाग्योगकामणीदारिकतन्मिश्रलक्षणाः सप्त बन्धहेतवो भवन्ति । 'न उ अजोगिम्मि' इति अयोगिकेवलिगुणस्थानके तु न कश्चिद्वन्धहेतुः, योगस्यापि व्यवच्छिन्नत्वात् ।। ७७॥ उक्का बन्धहेतवः । साम्प्रतं येषां कर्मणामेते बन्धहेतवस्तेषामेतेभ्यो बन्धमुपदर्शयन्नाहतो नाणदंसैणावरणवेयणीयाणि मोहणिजं च । आउयनाम गोयतरायमिइ अट्ट कम्माणि ॥७८॥ (हारि०) व्याख्या-तो' इति तेभ्यो मिथ्यात्वादिभ्यः सकाशाज्ज्ञानदर्शनावरणवेदनीयानीति बन्दः ॥१॥ तथा मोहनीयं च।आयुर्नामेति समाहारबन्दः । तथा गोत्रान्तरायमित्यत्रापि समाहारद्वन्दः । इत्येतान्यष्टौ8 कर्माणि पध्यन्त इति शेषः । इति गाथार्थः ॥ ७८॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476