________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षडशीति प्रकरणम्
॥१९७||
तथाऽप्रमत्तस्य लब्ध्यनुपजीवनेनाहारकवैक्रियानारम्भादाहारकमिश्रवैक्रियमिश्रलक्षणे द्विके षडिंशतेरप्यपनीते शेषाश्चतु-19 टीकाद्वयोविशतिबन्धहेतवोऽप्रमत्तगुणस्थानके भवन्ति । अपूर्वकरणगुणस्थानके तु वैक्रियाहारके अपि न संभवतः, इत्यनन्तरो- * पेतम् ॥ कायाश्चतुर्विंशतेवेंक्रियाहारकरूपे द्विकेऽपनीते शेषा द्वाविंशतिबन्धहेतवः। तथा हास्यादिषट्कस्यापूर्वकरणगुणस्थानक एव व्यवच्छिन्नत्वादनिवृत्तिबादरसंपरायगुणस्थानके द्वाविंशतः षट्वेऽपनीते शेषाः षोडश बन्धहेतवो भवन्ति, ते च वेदत्रयसंज्वलनचतुष्टयौदारिककाययोगचतुर्विधाग्योगचतुर्विधमनोयोगरूपा द्रष्टव्याः। तथा सूक्ष्मसंपरायगुणस्थानके वेदत्रये क्रोधादित्रये चानिवृत्तिबादर एव व्यवच्छिन्नत्वात्षोडशकादपनीते शेषा दश बन्धहेतवो भवन्ति । उपशान्तमोहगुणस्थानके नव बन्धहेतवः, लोभस्य सूक्ष्मसंपराये व्यवच्छिन्नत्वात् अत एव क्षीणमोहगुणस्थानकेऽपि सयोगिकेवलिगुणस्थानके सत्यासत्यामृषामनोयोगसत्यासत्यामृषावाग्योगकामणीदारिकतन्मिश्रलक्षणाः सप्त बन्धहेतवो भवन्ति । 'न उ अजोगिम्मि' इति अयोगिकेवलिगुणस्थानके तु न कश्चिद्वन्धहेतुः, योगस्यापि व्यवच्छिन्नत्वात् ।। ७७॥
उक्का बन्धहेतवः । साम्प्रतं येषां कर्मणामेते बन्धहेतवस्तेषामेतेभ्यो बन्धमुपदर्शयन्नाहतो नाणदंसैणावरणवेयणीयाणि मोहणिजं च । आउयनाम गोयतरायमिइ अट्ट कम्माणि ॥७८॥
(हारि०) व्याख्या-तो' इति तेभ्यो मिथ्यात्वादिभ्यः सकाशाज्ज्ञानदर्शनावरणवेदनीयानीति बन्दः ॥१॥ तथा मोहनीयं च।आयुर्नामेति समाहारबन्दः । तथा गोत्रान्तरायमित्यत्रापि समाहारद्वन्दः । इत्येतान्यष्टौ8 कर्माणि पध्यन्त इति शेषः । इति गाथार्थः ॥ ७८॥
For Private And Personal Use Only