________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
(मल० ) इह मिथ्यात्वाद्यवान्तरभेदानामनन्तरोक्तानां पञ्च द्वादशादीनामेकत्र मीलने सप्तपञ्चाशद्भवति । तत्र मिथ्यादृष्टिगुणस्थानके आहारकतन्मिश्रवोः शेषाः पञ्चपञ्चाशद्वन्धहेतवो भवन्ति । आहारकद्विकवर्जनं तु 'संयमवतां तदुदयो नान्यस्य' इतिवचनात् । तथा सासादनसम्यग्दृष्टौ पञ्चाशद्वन्धहेतवः, मिथ्यात्वपञ्चकस्येहासंभवेनोपनयनात्। तथा सम्यग्मिथ्यादृष्टौ त्रिचत्वारिंशद्वन्धहेतवः, यतोऽत्र "न सम्ममिच्छो कुणइकालं" इतिवचनात्, न परलोकगमनं तदभावाच्च न कार्मणौदारिकमिश्रवैक्रियमिश्रसंभवः, अनन्तानुबन्ध्युदयस्य चात्र निषिद्धत्वादनन्तानुबन्धिचतुष्टयमपि न संभवति, अत एतेषु सप्तसु पूर्वोक्तायाः पञ्चाशतोऽपनीतेषु शेषास्त्रिचत्वारिंशदेव भवति । तथाऽविरतसम्यग्दृष्टिगुणस्थानके षट्चत्वारिंशद्वन्धहेतवः, यतोऽत्र परलोकगमनसंभवात् पूर्वापनीतं कार्मणौदारिकमिश्रवैक्रियमिश्रलक्षणं त्रिकं पूर्वोक्तायां त्रिचत्वारिंशति पुनः प्रक्षिप्यत इति । तथा देशविरतिगुणस्थानके एकोनचत्वारिंशद्वन्धहेतवः यस्मान्नात्राप्रत्याख्यानावरणकषायोदयः, न च सासंयमः, नाप्येतद्गुणस्थानकमपान्तरालगतावपर्याप्तावस्थायां वा लभ्यते, ततोऽप्रत्याख्यानावरणचतुष्टयकार्मणौदारिकमिश्रत्रसासंयमरूपेषु सप्तसु पूर्वोक्तायाः षट्चत्वारिंशतोऽपनीतेषु शेषा एकोनचत्वारिंशद्वन्धहेतवो भवन्ति। ननु देशविरतस्त्रसासंयमात्संकल्पजादेव निवृत्तो न त्वारम्भजात् , तत्कथमेषोऽत्रा-18 पनीयते ? इति, नैष दोषः, आरम्भेऽपि तस्य यतनया प्रवर्तमानत्वेन तन्निमित्तस्य त्रसासंयमस्य सतोऽपीहाविवक्षणात् । तथा प्रमत्तगुणस्थानके षड्विंशतिर्बन्धहेतवः, यत इहैकादशधाऽविरतिः प्रत्याख्यानावरणचतुष्टयं च न संभवति, आहारकद्विकं च संभवति, ततः पूर्वोक्ताया एकोनचत्वारिंशतः पञ्चदशकेऽपनीते द्विके च तत्र प्रक्षिप्ते पड्विंशतिरेव भवति ।
CARRCRACROR
For Private And Personal Use Only