Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 427
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MAXCCCORNER तथा(मल०) मिथ्यादृष्टिप्रभृतयः प्रमत्तान्ता यावदद्याप्यनुभूयमानभवायुरावलिकावशेषं न भवति तावत्सर्वेऽप्यमी निरन्तरमष्टावपि कर्माण्युदीरयन्ति, आवलिकावशेषे पुनरनुभूयमानभवायुषि सप्तैव, आवलिकावशेषस्य कर्मण उदीरणाया अभावात्तथास्वाभाव्यात् । 'अह मिस्सो उ इति मिश्रस्तु सम्यग्मिथ्यादृष्टिः पुनरष्टावेव कर्माण्युदीरयति, न तु कदाचनापि सप्त, सम्यग्मिथ्यादृष्टिगुणस्थानके वर्तमानस्य सत आयुष आवलिकावशेषाभावात् । स हि अन्तर्मुहूर्तावशेषायुष्क एव तद्भावं परित्यज्य सम्यक्त्वं मिथ्यात्वं वा नियमात्प्रतिपद्यत इति । तथाऽप्रमत्तापूर्वकरणानिवृत्तिवादरा वेदनीयायुषी वर्जयित्वा शेषाणि षट्र कर्माण्युदीरयन्ति न तु वेदनीयायुषी, अतिविशुद्धतया तदुदीरणायोग्याध्यवसायस्थानाभावात् ॥ ८२॥ सुहमो छ पंच उइरेइ पंच उवसंतु पंच दोखीणो।जोगी उ नाम गोए, अजोगि अणुदीरगोभयवं ॥८३॥ (हारि०) व्याख्या-सूक्ष्मसंपरायः षट् पञ्च वोदीरयति । तथा पश्चोपशान्तमोहः । तथा पश्च देवा क्षीणमोहः । तथा योगी सयोगिकेवली तुरेवकारार्थः, उत्तरत्र योक्ष्यते, नामगोत्रे एव । तथाऽयोगी अनुदीरको न किंचिदुदीरयति भगवान् पूज्य इति । सप्ताष्टषडादिपदभावना त्वेवं द्रष्टव्या-इह मिथ्यादृष्टेः प्रभृति यावत्पमत्तसंयतो यावदद्याप्यावलिकावशेषमात्मीयात्मीयमायुर्न भवति तावत्सर्वेऽप्यमी निरन्तरमष्टावपि प्रकृतीरुदीरयन्ति, तदुदीरणायोग्याध्यवसायस्य सर्वेष्वपि भावात् । अर्द्धावलिकावशेषे आयुषि सप्तैव AKES01-31 R For Private And Personal Use Only

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476