Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 426
________________ Shri Mahavir Jain Aradhana Kendra षडशीतिप्रकरणम् ॥१९९॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उदये सत्तायां च 'भवन्ति' जायन्ते प्रकृतयः कर्मणामिति शेषः । तथा सप्ताष्टौ चोपशान्ते, सप्त उद्येऽष्टौ सत्तायामित्यर्थः । तथा 'क्षीणे' क्षीणमोहे मोहवर्जा उदये सत्तायां च सप्तेति । तथा चत्वार्यघातिकर्माणीति शेषः । शेषयोः सयोग्ययोगिकेवलिगुणस्थानकयोरुदये सत्तायां च भवन्तीति सर्वत्र योज्यम् । इति गाथार्थ : ८१ ॥ इत्युदय सत्तास्थानानि निरूपितानि गुणस्थानकेषु । ८१ । साम्प्रतमुदीरणास्थानानि तेष्वेव योजयन्नाह( मल० ) मिथ्यादृष्टिगुणस्थानकमारभ्य यावत्सूक्ष्मसंप रायगुणस्थानं तावदष्टावपि कर्मप्रकृतय उदये सत्तायां च प्राप्यन्ते । उपशान्तमोहगुणस्थानके उदये सप्त कर्मप्रकृतयः, सत्तायामष्टौ । 'क्षीणे' क्षीणमोहगुणस्थानके सत्तायामुदये च सप्त कर्मप्रकृतयः, मोहनीयस्य क्षीणत्वात् । 'चत्तारि सेसेसु' इति प्राकृतत्वाद्वित्वेऽपि बहुवचनम् । शेषयोः सयोग्य| योगिकेवलिगुणस्थानकयोरुदये सत्तायां चतस्रोऽघातिकर्मप्रकृतयो भवन्ति, घातिकर्मचतुष्टयस्य क्षीणत्वात् ॥ ८१ ॥ उता सत्तोदयस्थान योजना | साम्प्रतमुदीरणास्थानानि योजयन्नाह - सत्तट्ट पमत्तंता, कम्मे उइरिंति अट्ठ मीसो उ । वेयणियाउ विणा छ उ, अपमत्तअपुवअनियट्टी ॥ ८२ ॥ ( हारि० ) व्याख्या - सप्ताष्ट वा कर्माण्युदीरयन्तीति सण्टङ्कः । क एते ? प्रमत्तान्ताः पञ्च मिश्रवर्णाः, तस्य पृथग्भणनात् । तदेवाह - 'अट्ठ मीसो उ' इति अष्टावेव वचनव्यत्ययादुदीरयति मिश्रः, तुरेवकारार्थों योजित एव । तथा विभक्तिलोपाछेदनीयायुर्भ्यां विना षट् कर्माण्युदीरयन्ति । क एते ? अप्रमत्तापूर्वानिवृत्तिवादरा इति इन्द्रः । इति गाथार्थः ॥ ८२ ॥ For Private And Personal Use Only टीकाइयोपेतम् ॥ ॥ ८३ ॥

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476