Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षडशीति
प्रकरणम्
॥२०॥
ASHIKARAN
प्रकृतीरुदीरयन्ति न त्वायुष्कम् । सम्यग्मिमिथ्यादृष्टिस्तु अष्टावेवोदीरयति न तु कदाचनापि सप्तेति,
टीकाद्वयोसम्पग्मिथ्यादृष्टेरायुष आवलिकावशेषताया अभावात्, सह्यायुष्कान्तर्मुहूर्तावशेष एव तद्भावं परित्यज्य |
*पेतम् ॥ | सम्यक्त्वं मिथ्यात्वं वा नियमात्प्रतिपद्यत इति । अप्रमत्तादयस्त्रयः षट् कर्माण्युदीरयन्ति, अतिविशुद्धत्वेन वेदनीयायुरुदीरणायोग्याध्यवसायाभावात् । सूक्ष्मसंपरायस्तु षड्विधोदीरकस्तावद् यावन्मोहनीयमावलिकावशेषं न भवति, तदवशेषे तु तस्मिन् पञ्चविधोदीरक एवेति । उपशान्तमोहस्तु पूर्वोक्तपञ्चविधोदीरक इति । क्षीणमोहस्तु ज्ञानावरणदर्शनावरणान्तरायेष्वावलिकावशेषे तु द्विविधोदीरकः, पूर्व तु पञ्चविधोदीरक इति । सयोगिकेवली पुनर्विविधोदीरक एव, यतो वेद्यमानमेव कर्मोदीयते । तत्र घातिचतुष्टयस्य क्षीणत्वावेदनमेव नास्ति, कुतस्तदुदीरणम्! बेदनीयायुषोस्तूदीरणा प्रागेवोपरतेति । अयोगिकेवली तुन किंचिदुदीरयति, उदीरणस्य योगसव्यपेक्षत्वात् , तस्य च तदभावात् । इति गाथार्थः ॥ ८३॥
इत्युक्तोदीरणा । अथाल्पबहुत्वमाह| (मल०) सूक्ष्मः सूक्ष्मसंपरायः षट् पञ्च वा कर्माण्युदीरयति । तत्र पडनन्तरोक्तानि तानि च तावदुदीरयति यावन्मोहनीयमावलिकावशेषं न भवति, आवलिकावशेषे च मोहनीये तस्याप्युदीरणाया अभावात् शेषाणि पश्च कर्माण्युदी
॥८४॥ |रयति । 'पंच उवसंतु इति उपशान्त उपशान्तमोहः पश्च कर्माण्युदीरयति न वेदनीयायुर्मोहनीयानि । तत्र वेदनीयायुषोः कारणं प्रागेवोक्तम् । मोहनीयं तदुदयाभावान्नोदीर्यते 'वेद्यमानमेवोदीर्यते' इतिवचनात् । 'पंच दो खीणो' इति ।
NEXANESHREST
For Private And Personal Use Only

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476