________________
Shri Mahavir Jain Aradhana Kendra
षडशीतिप्रकरणम्
॥१९९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उदये सत्तायां च 'भवन्ति' जायन्ते प्रकृतयः कर्मणामिति शेषः । तथा सप्ताष्टौ चोपशान्ते, सप्त उद्येऽष्टौ सत्तायामित्यर्थः । तथा 'क्षीणे' क्षीणमोहे मोहवर्जा उदये सत्तायां च सप्तेति । तथा चत्वार्यघातिकर्माणीति शेषः । शेषयोः सयोग्ययोगिकेवलिगुणस्थानकयोरुदये सत्तायां च भवन्तीति सर्वत्र योज्यम् । इति गाथार्थ : ८१ ॥
इत्युदय सत्तास्थानानि निरूपितानि गुणस्थानकेषु । ८१ । साम्प्रतमुदीरणास्थानानि तेष्वेव योजयन्नाह( मल० ) मिथ्यादृष्टिगुणस्थानकमारभ्य यावत्सूक्ष्मसंप रायगुणस्थानं तावदष्टावपि कर्मप्रकृतय उदये सत्तायां च प्राप्यन्ते । उपशान्तमोहगुणस्थानके उदये सप्त कर्मप्रकृतयः, सत्तायामष्टौ । 'क्षीणे' क्षीणमोहगुणस्थानके सत्तायामुदये च सप्त कर्मप्रकृतयः, मोहनीयस्य क्षीणत्वात् । 'चत्तारि सेसेसु' इति प्राकृतत्वाद्वित्वेऽपि बहुवचनम् । शेषयोः सयोग्य| योगिकेवलिगुणस्थानकयोरुदये सत्तायां चतस्रोऽघातिकर्मप्रकृतयो भवन्ति, घातिकर्मचतुष्टयस्य क्षीणत्वात् ॥ ८१ ॥ उता सत्तोदयस्थान योजना | साम्प्रतमुदीरणास्थानानि योजयन्नाह -
सत्तट्ट पमत्तंता, कम्मे उइरिंति अट्ठ मीसो उ । वेयणियाउ विणा छ उ, अपमत्तअपुवअनियट्टी ॥ ८२ ॥ ( हारि० ) व्याख्या - सप्ताष्ट वा कर्माण्युदीरयन्तीति सण्टङ्कः । क एते ? प्रमत्तान्ताः पञ्च मिश्रवर्णाः, तस्य पृथग्भणनात् । तदेवाह - 'अट्ठ मीसो उ' इति अष्टावेव वचनव्यत्ययादुदीरयति मिश्रः, तुरेवकारार्थों योजित एव । तथा विभक्तिलोपाछेदनीयायुर्भ्यां विना षट् कर्माण्युदीरयन्ति । क एते ? अप्रमत्तापूर्वानिवृत्तिवादरा इति इन्द्रः । इति गाथार्थः ॥ ८२ ॥
For Private And Personal Use Only
टीकाइयोपेतम् ॥
॥ ८३ ॥