________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
MAXCCCORNER
तथा(मल०) मिथ्यादृष्टिप्रभृतयः प्रमत्तान्ता यावदद्याप्यनुभूयमानभवायुरावलिकावशेषं न भवति तावत्सर्वेऽप्यमी निरन्तरमष्टावपि कर्माण्युदीरयन्ति, आवलिकावशेषे पुनरनुभूयमानभवायुषि सप्तैव, आवलिकावशेषस्य कर्मण उदीरणाया अभावात्तथास्वाभाव्यात् । 'अह मिस्सो उ इति मिश्रस्तु सम्यग्मिथ्यादृष्टिः पुनरष्टावेव कर्माण्युदीरयति, न तु कदाचनापि सप्त, सम्यग्मिथ्यादृष्टिगुणस्थानके वर्तमानस्य सत आयुष आवलिकावशेषाभावात् । स हि अन्तर्मुहूर्तावशेषायुष्क एव तद्भावं परित्यज्य सम्यक्त्वं मिथ्यात्वं वा नियमात्प्रतिपद्यत इति । तथाऽप्रमत्तापूर्वकरणानिवृत्तिवादरा वेदनीयायुषी वर्जयित्वा शेषाणि षट्र कर्माण्युदीरयन्ति न तु वेदनीयायुषी, अतिविशुद्धतया तदुदीरणायोग्याध्यवसायस्थानाभावात् ॥ ८२॥ सुहमो छ पंच उइरेइ पंच उवसंतु पंच दोखीणो।जोगी उ नाम गोए, अजोगि अणुदीरगोभयवं ॥८३॥
(हारि०) व्याख्या-सूक्ष्मसंपरायः षट् पञ्च वोदीरयति । तथा पश्चोपशान्तमोहः । तथा पश्च देवा क्षीणमोहः । तथा योगी सयोगिकेवली तुरेवकारार्थः, उत्तरत्र योक्ष्यते, नामगोत्रे एव । तथाऽयोगी अनुदीरको न किंचिदुदीरयति भगवान् पूज्य इति । सप्ताष्टषडादिपदभावना त्वेवं द्रष्टव्या-इह मिथ्यादृष्टेः प्रभृति यावत्पमत्तसंयतो यावदद्याप्यावलिकावशेषमात्मीयात्मीयमायुर्न भवति तावत्सर्वेऽप्यमी निरन्तरमष्टावपि प्रकृतीरुदीरयन्ति, तदुदीरणायोग्याध्यवसायस्य सर्वेष्वपि भावात् । अर्द्धावलिकावशेषे आयुषि सप्तैव
AKES01-31
R
For Private And Personal Use Only