Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 421
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir (मल० ) इह मिथ्यात्वाद्यवान्तरभेदानामनन्तरोक्तानां पञ्च द्वादशादीनामेकत्र मीलने सप्तपञ्चाशद्भवति । तत्र मिथ्यादृष्टिगुणस्थानके आहारकतन्मिश्रवोः शेषाः पञ्चपञ्चाशद्वन्धहेतवो भवन्ति । आहारकद्विकवर्जनं तु 'संयमवतां तदुदयो नान्यस्य' इतिवचनात् । तथा सासादनसम्यग्दृष्टौ पञ्चाशद्वन्धहेतवः, मिथ्यात्वपञ्चकस्येहासंभवेनोपनयनात्। तथा सम्यग्मिथ्यादृष्टौ त्रिचत्वारिंशद्वन्धहेतवः, यतोऽत्र "न सम्ममिच्छो कुणइकालं" इतिवचनात्, न परलोकगमनं तदभावाच्च न कार्मणौदारिकमिश्रवैक्रियमिश्रसंभवः, अनन्तानुबन्ध्युदयस्य चात्र निषिद्धत्वादनन्तानुबन्धिचतुष्टयमपि न संभवति, अत एतेषु सप्तसु पूर्वोक्तायाः पञ्चाशतोऽपनीतेषु शेषास्त्रिचत्वारिंशदेव भवति । तथाऽविरतसम्यग्दृष्टिगुणस्थानके षट्चत्वारिंशद्वन्धहेतवः, यतोऽत्र परलोकगमनसंभवात् पूर्वापनीतं कार्मणौदारिकमिश्रवैक्रियमिश्रलक्षणं त्रिकं पूर्वोक्तायां त्रिचत्वारिंशति पुनः प्रक्षिप्यत इति । तथा देशविरतिगुणस्थानके एकोनचत्वारिंशद्वन्धहेतवः यस्मान्नात्राप्रत्याख्यानावरणकषायोदयः, न च सासंयमः, नाप्येतद्गुणस्थानकमपान्तरालगतावपर्याप्तावस्थायां वा लभ्यते, ततोऽप्रत्याख्यानावरणचतुष्टयकार्मणौदारिकमिश्रत्रसासंयमरूपेषु सप्तसु पूर्वोक्तायाः षट्चत्वारिंशतोऽपनीतेषु शेषा एकोनचत्वारिंशद्वन्धहेतवो भवन्ति। ननु देशविरतस्त्रसासंयमात्संकल्पजादेव निवृत्तो न त्वारम्भजात् , तत्कथमेषोऽत्रा-18 पनीयते ? इति, नैष दोषः, आरम्भेऽपि तस्य यतनया प्रवर्तमानत्वेन तन्निमित्तस्य त्रसासंयमस्य सतोऽपीहाविवक्षणात् । तथा प्रमत्तगुणस्थानके षड्विंशतिर्बन्धहेतवः, यत इहैकादशधाऽविरतिः प्रत्याख्यानावरणचतुष्टयं च न संभवति, आहारकद्विकं च संभवति, ततः पूर्वोक्ताया एकोनचत्वारिंशतः पञ्चदशकेऽपनीते द्विके च तत्र प्रक्षिप्ते पड्विंशतिरेव भवति । CARRCRACROR For Private And Personal Use Only

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476