________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीकाद्वयोपेतम् ॥
पडशीति-14 कापोतलेश्यायां १३ 'भवियर' इति भव्येषु १४ अभव्येषु १५ मिथ्यादृष्टिषु १६ आहारके १७ चेति सप्तदश- प्रकरणम्- स्थानेषु सर्वाणि जीवस्थानानि भवन्तीति शेषः । इति गाथार्थः ॥२१॥
- इत एकादशस्थानेषु लाघवार्थमेव संगृह्य पर्यासापर्याससंज्ञिपश्चेन्द्रियरूपं जीवस्थानकद्वयं निरूपयवाह-- ॥१३॥
द (मल०) काययोगे नपुंसकवेदे 'कषाये' क्रोधादिचतुष्टयरूपे अज्ञानशब्दस्य प्रत्येकमभिसंबन्धान्मत्यज्ञाने श्रुताज्ञाने
'अविरत' इति विरतिहीने अचक्षुर्दर्शने 'आदित्रिलेश्यासु' कृष्णनीलकापोतरूपासु 'भव्येतरेषु' इति भव्येष्वभव्येषु च तथा मिथ्यात्वे आहारके च सर्वाण्यपि जीवस्वाचानि भवन्ति, सर्वजीवस्थानन्यापकत्वात्काययोगादीनाम् ॥२१॥ मइसुयओहिदुगविभंगपम्हसुक्कासुतिसुयसम्मेसु। सन्निम्मि य दो ठाणा, सनिअपजत्तपजत्ता ॥२२॥ | (हारि०) व्याख्या-मतिज्ञाने १ श्रुतज्ञाने २ 'ओहिदुग' इति अवधिज्ञाने ३ अवधिदर्शने ४ च विभअज्ञाने ५ पद्मलेइयायां ६ शुक्ललेइयायां ७ घेति, तथा 'तिसु य सम्मेसु' इति त्रिषु च सम्यक्त्वेषु, तद्यथा-क्षायिके ८क्षायोपशमिके ९ औपशमिके १०० च, संशिनि ११ च, दो ठाणा' इति दे जीवस्थानके पर्याप्तापर्योसकसंज्ञिपञ्चेन्द्रियलक्षणे इत्येकादशस्थानेषु जीवस्थानकडयमित्याह । इह भावना चैवम्-मतिश्रुतावधिद्विकविभङ्गपद्मशुक्ललेश्यावतां देवादिभ्यश्चयुतानां संज्ञिपञ्चेन्द्रियेषूत्पन्नानां प्रथममपर्याप्सकसंज्ञिलक्षणं जीवस्थानकं प्राप्यते। पर्याप्तं च जीवस्थानकमेतेषु सुज्ञानमेव । तथा 'तिसु य सम्मेसु' इति त्रिषु च सम्यक्त्वेषु क्षायिकक्षायोपशमिकौपशमिकलक्षणेषु पर्यासापर्याप्सकसंज्ञिपञ्चेन्द्रियलक्षणं जीवस्थानकवयं
ASHASSAGARCACASSACREAK
॥२३॥
For Private And Personal Use Only