Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SEASTER5RCAS
तथा(मल0) केवलद्विकेन केवलज्ञानकेवलदर्शनलक्षणेन हीनाः शेषा दशपयोगाः कपायेषु क्रोधमानमायालोभरूपेषु, शुक्ललेश्यावर्जितासु शेषासु पञ्चसु पद्मादिलेश्यासु, अचक्षुर्दर्शने चक्षुर्दर्शने च भवन्ति, न तु केवलद्विक, कषायादिसदावे तस्यानुत्पादात् । 'केवलदुगे नियदुगं' इति केवलद्विके केवलज्ञानदर्शनलक्षणे निजद्विक केवलज्ञानकेवलदर्शनलक्षणं स्वकीयमुपयोगद्वयं भवति न शेषा उपयोगाः, देशज्ञानदर्शनव्यवच्छेदेनैव केवलद्विकस्य सद्भापात् । एतच्च प्रागेवोकम् । तथा क्षायिके सम्यक्त्वे नव उपयोगा भवन्ति । कुतः! इत्याह-'नो अनाणतिर्ग' इति यतस्तत्सद्भावेऽज्ञानत्रिकं न भवति, तस्य मिथ्यात्वनिबन्धनत्वात्, निर्मूलतो मिथ्यात्वक्षयेण च क्षायिकसम्यक्त्वोत्पादात्, अतस्तत्र नवैवोपयोगा भवन्ति ॥४५॥ पढमचउनाणसंजमवेयगउवसमियओहिदंसेसु।नाणचउर्दसणतिगं, केवलदुजुयं अहक्खाए ॥४६॥ | (हारि०) व्याख्या-ज्ञानानि च मतिज्ञानादीनि संयमाश्च सामायिकसंयमादयो ज्ञानसंयमाः, चत्वारश्च ते ज्ञानसंयमाश्च चतुर्ज्ञानसंयमाः, प्रथमाश्च ते चतुर्ज्ञानसंयमाश्च प्रथमचतुर्ज्ञानसंयमाः, प्रथमचतुर्तानानि प्रथमचतुःसंयमाश्चेत्यर्थः, प्रथमचतुःशब्दयोः प्रत्येकमभिसंबन्धात्, ततः प्रथमचतुर्ज्ञानसंयमाश्च वेदकं च क्षायोपशमिकसम्यक्त्वमौपशमिकं च अवधिदर्शनं च प्रथमचतुर्ज्ञानसंयमवेदकौपशमिकावधिदर्शनानि तेष्वेकादशस्थानकेषु कत्युपयोगाः ? इत्याह-ज्ञानचतुष्टयदर्शनत्रिकमिति तत्पुरुषगर्भी इन्दः, तत्र ज्ञानच
For Private And Personal Use Only

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476