SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SEASTER5RCAS तथा(मल0) केवलद्विकेन केवलज्ञानकेवलदर्शनलक्षणेन हीनाः शेषा दशपयोगाः कपायेषु क्रोधमानमायालोभरूपेषु, शुक्ललेश्यावर्जितासु शेषासु पञ्चसु पद्मादिलेश्यासु, अचक्षुर्दर्शने चक्षुर्दर्शने च भवन्ति, न तु केवलद्विक, कषायादिसदावे तस्यानुत्पादात् । 'केवलदुगे नियदुगं' इति केवलद्विके केवलज्ञानदर्शनलक्षणे निजद्विक केवलज्ञानकेवलदर्शनलक्षणं स्वकीयमुपयोगद्वयं भवति न शेषा उपयोगाः, देशज्ञानदर्शनव्यवच्छेदेनैव केवलद्विकस्य सद्भापात् । एतच्च प्रागेवोकम् । तथा क्षायिके सम्यक्त्वे नव उपयोगा भवन्ति । कुतः! इत्याह-'नो अनाणतिर्ग' इति यतस्तत्सद्भावेऽज्ञानत्रिकं न भवति, तस्य मिथ्यात्वनिबन्धनत्वात्, निर्मूलतो मिथ्यात्वक्षयेण च क्षायिकसम्यक्त्वोत्पादात्, अतस्तत्र नवैवोपयोगा भवन्ति ॥४५॥ पढमचउनाणसंजमवेयगउवसमियओहिदंसेसु।नाणचउर्दसणतिगं, केवलदुजुयं अहक्खाए ॥४६॥ | (हारि०) व्याख्या-ज्ञानानि च मतिज्ञानादीनि संयमाश्च सामायिकसंयमादयो ज्ञानसंयमाः, चत्वारश्च ते ज्ञानसंयमाश्च चतुर्ज्ञानसंयमाः, प्रथमाश्च ते चतुर्ज्ञानसंयमाश्च प्रथमचतुर्ज्ञानसंयमाः, प्रथमचतुर्तानानि प्रथमचतुःसंयमाश्चेत्यर्थः, प्रथमचतुःशब्दयोः प्रत्येकमभिसंबन्धात्, ततः प्रथमचतुर्ज्ञानसंयमाश्च वेदकं च क्षायोपशमिकसम्यक्त्वमौपशमिकं च अवधिदर्शनं च प्रथमचतुर्ज्ञानसंयमवेदकौपशमिकावधिदर्शनानि तेष्वेकादशस्थानकेषु कत्युपयोगाः ? इत्याह-ज्ञानचतुष्टयदर्शनत्रिकमिति तत्पुरुषगर्भी इन्दः, तत्र ज्ञानच For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy