SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् षडशीति- १ तुष्कं मतिश्रुतावधिमनः पर्यवज्ञानलक्षणम्, दर्शनन्त्रिकं तु चक्षुरचक्षुरवधिदर्शनरूपम् इति सप्तोपयोगा भवन्ति । तथा 'केवलद्विकयुतं' केवलज्ञान केवलदर्शनद्वययुक्तं पूर्वोक्तमुपयोगसप्तकमुपयोगनवकं भवति, तत् क ? इत्याह- 'यथाख्याते' पञ्चमसंयमे, एतच्चान्त्यगुणस्थानकचतुष्टये भवति । ततश्चोपयोगसप्तकं छद्मस्थवीतरागोपशान्तक्षीणमोहगुणस्थानयोः । केवलद्विकं च केवलिनः स्वगुणस्थानकयोरिति भावना । | इति गाथार्थः ॥ ४६ ॥ ॥ १७३॥ तथा ( मल० ) प्रथमेषु चतुर्षु ज्ञानेषु मतिश्रुतावधिमनः पर्यायज्ञानलक्षणेषु प्रथमेषु च चतुर्षु संयमेषु सामायिकच्छेदोपस्थाप| नीयपरिहारविशुद्धिकसूक्ष्मसंपरायरूपेषु, 'वेयग' इति क्षायोपशमिके औपशमिके च सम्यक्त्वेऽवधिदर्शने च चत्वारि ज्ञानानि ||मतिश्रुतावधिमनःपर्यायज्ञानलक्षणानि, तथा दर्शनत्रिकं चक्षुरचक्षुरवधिदर्शनलक्षणम् इत्येते सप्त उपयोगा भवन्ति न शेषाः, तद्भावे मत्यज्ञानादीनामसंभवात् । इहाप्यवधिदर्शने मत्यज्ञानाद्युपयोगप्रतिषेधो मतान्तरापेक्षया द्रष्टव्यः । | अन्यथा हि मत्यज्ञानादिमतामपि सूत्रे साक्षादवधिदर्शनं प्रतिपादितमेव यथोक्तं प्रागिति । 'केवलदुजुयं अहक्खाए' इति यथाख्यातसंयमे तदेव पूर्वोक्तमुपयोगसप्तकं 'केवलद्विकयुतं' केवलज्ञानदर्शनयुतं द्रष्टव्यम्, यथाख्यातसंयमस्य सयोगिकेवल्यादावपि भावात् । तत्र च केवलद्विकस्य भावात् । इति ॥ ४६ ॥ नाणतिगदंसणतिगं, देसे मीसे अनाणमीसं तं । केवलदुगमणपज्जववज्जा अस्संजयंमि नव ॥ ४७ ॥ For Private And Personal Use Only टीकाद्वयोपतम् ॥ ॥ ५७ ॥
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy