________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SSACROSS
(हारि०) व्याख्या-ज्ञानत्रिकदर्शनत्रिकमिति द्वन्द्वः, इति षड्डुपयोगाः, कः? इत्याह-देशे' देशविरतसंयमे, तथा मिश्रे' मिश्रगुणस्थानके, तदिति ज्ञानत्रिकदर्शनत्रिक मिश्रमज्ञान मिश्रम् , तथा केवल द्विकमनःपर्यायज्ञानवर्जा इह यथायोगं समासः, नवोपयोगाः, क? इत्याह-'असंयते' संयमरहिते, तत्र मिश्रे उक्ता एवोपयोगा। मिथ्यादृष्टेः सासादनस्य चाज्ञानत्रयम्, सम्यग्दृष्टज्ञानत्रयमवधिदर्शनं च, त्रयाणामप्यचक्षुर्दर्शनं चेति नवोपयोगभावना । इति गाथार्थः॥४७॥
तथा| (मल०) ज्ञानत्रिकं मतिश्रुतावधिलक्षणम् , दर्शनत्रिकं चक्षुरचक्षुरवधिदर्शनलक्षणम् , इत्येते षड् उपयोगा देशविर-2 तिसंयमे भवन्ति न शेषाः, मिथ्यात्वसर्वविरत्यभावात् । 'मीसे अनाणमीसं तं' इति मिश्रे सम्यग्मिथ्यादृष्टौ तज्ज्ञानत्रिक दर्शनत्रिकं चाज्ञानमिनं द्रष्टव्यम् । मतिज्ञानं मत्यज्ञानमिश्रम् , श्रुतज्ञानं श्रुताज्ञानमिनम् , अवधिज्ञानं विभङ्गज्ञानमिश्रम् । इह चावधिदर्शनमाचार्येण मतान्तरापेक्षया भणितम् । अन्यथैतेष्वेव मार्गणास्थानकेषु गुणस्थानकमार्गणायाम्-"मइसुयओहिदुगे नव अजयाई" इत्यनेन ग्रन्थेन यदुक्तं अवधिदर्शनस्यायतादीनि क्षीणमोहान्तानि नव गुणस्थानकानि भवन्तीति तद्विरुध्येत, मिश्रगुणस्थानकेऽपीदानीमवधिदर्शनस्याभिधानादिति । तथा केवलज्ञानकेवलदर्शनलक्षणकेवलद्विकमनःपर्यायज्ञानवर्जाः शेषा नवोपयोगाः 'असंयते' संयमहीने भवन्ति, न तु केवलद्विकमनःपर्यायज्ञाने, तस्य विरतिहीनत्वात् , तेषां च विरतिनिबन्धनत्वात् ॥४७॥
AKASAMACHAR
ES
For Private And Personal Use Only