________________
Shri Mahavir Jain Aradhana Kendra
षडशीति
पकरणम्
॥१७४॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्नाणतिगअभवे, सासणमिच्छेय पंच उवओगा। दो दंसण तियनाणा, ते अविभंगा असन्निम्मि ॥४८॥ ( हारि०) व्याख्या - अज्ञानत्रिकं च पूर्वोक्तमभव्यश्चेति समाहारद्वन्द्वः, तत्राज्ञानत्रिकाभध्ये, सासादनं च मिथ्यात्वं चात्रापि समाहारद्वन्दः, तत्र सासादनमिध्यात्वे च चशब्दः समुच्चयार्थः, इति पदषट्के, किम् ? इत्याह-पञ्चोपयोगाः । कीदृशाः ? इत्याह- 'वे दर्शने' चक्षुर्दर्शना चक्षुर्दर्शन लक्षणे, 'त्रीण्यज्ञानानि' | मत्यज्ञानादीनि । तथा 'ते' पूर्वोक्ताः पश्चाविभङ्गा विभङ्गवर्जिताश्चत्वार इत्यर्थः, क ? 'असंज्ञिनि' मनोविज्ञानविकले । इति गाथार्थः ॥ ४८ ॥
साम्प्रतमुपयोगानुपसंहरन् मतान्तरं दर्शयन्नाह -
( मल० ) अज्ञानत्रिके मत्वज्ञान श्रुताज्ञानविभङ्गज्ञानलक्षणे, तथाऽभव्ये, सासादने, मिथ्यात्वे च दर्शनद्विकं चक्षुरचक्षुर्दर्शनलक्षणम्, अज्ञानत्रिकं मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानलक्षणम्, इत्येते पञ्च उपयोगा भवन्ति न शेषाः, अवदातसम्य| क्त्वविरत्यभाषात् । अज्ञानत्रिकादो चावधिदर्शनं यतः कुतश्चिदभिप्रायादाचार्येण नोक्तं तन्न सम्यगवगच्छामः, सूत्रे | मत्यज्ञानादावप्यवधिदर्शनस्य प्रतिपादितत्वात् । एतच्च प्रागेवानेकश उक्तम् । “ते अविभंगा असन्निम्मि” इति त एव पूर्वोक्ताः पञ्चोपयोगा अविभङ्गा विभङ्गज्ञानविकलाः सन्तः शेषाश्चत्वार उपयोगा असंज्ञिनि संज्ञिव्यतिरिक्ते जीवे भवन्ति । यत्तु विभङ्गज्ञानं तदसंज्ञिनि नोपपद्यते, तद्धिं भवप्रत्ययतो गुणप्रत्ययतो वा जायते, न चानयोरेकतरोऽपि प्रत्ययोऽत्र घटते । इति ॥ ४८ ॥
For Private And Personal Use Only
टीकाद्वयोपेतम् ॥
॥ ५८ ॥