________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CARE
मणनाणचक्खुरहिया,दस उअणाहारगेसु उवओगा। इय गइयाइसु नयमयनाणत्तमिणं तु जोगेसु॥४९॥ | (हारि०) व्याख्या-मनापर्यवज्ञानचक्षुर्दर्शनरहिता दशैवोपयोगाः, तुरेवकारार्थः, क? इत्याह-अनाहारके विग्रहगतौ केवलिसमुद्धाते च यथायोगं योज्याः । तथाहि-विग्रहगतौ सम्यग्दृष्टानत्रयमवधिदर्शनं च, मिथ्यादृष्टेः सासादनस्य चाज्ञानत्रयम्, त्रयाणामप्यचक्षुर्दर्शनं तस्यानाहारकावस्थायामपि लब्धिमाश्रित्याभ्युपगमात् । इत्येवमेतेऽष्टौ केवलिसमुद्धातेऽयोगिनि गुणस्थानके च केवलज्ञानकेवलदर्शन द्विकमित्यनाहारके दशेति भावना । इति गत्यादिषूपयोगा योजिता इति शेषः इति । अत्र नयमतेन निश्चयनयाभिप्रायेणैकैकयोगापेक्षयेत्यर्थः, नानात्वं नयमतनानात्वं विशेषो योगेषु मनोवाकायरूपेषु । कीदृशं नानात्वम् ? अत आह-इदं वक्ष्यमाणम् , तुशब्दः पुनरर्थः, प्राक्तनव्याख्यापेक्षया वक्ष्यमाणव्याख्यानस्य विशेषद्योतकः। इति गाथार्थः।। ४९॥
तदेव नानात्वमाह| (मल० ) मनःपर्यायज्ञानचक्षुर्दर्शनरहिताः शेषा दशैवोपयोगा अनाहारके भवन्ति, तुरेवकारार्थः, तदुक्तम्-"तुः | स्था देऽवधारणे" इति । अनाहारको हि विग्रहगतौ केवलिसमुद्धातावस्थायामयोग्यवस्थायां वा, न च तदानीं मनःपयोंयज्ञानचक्षुर्दर्शनसंभव इति, उपसंहारमाह-'उवओगा इय गइयाइसु' इति, इति एवमुकेन प्रकारेण गत्यादिषु मार्गणास्थानेषूपयोगा भवन्ति । साम्प्रतं योगेषु गुणस्थानकजीवस्थानोपयोगयोगानधिकृत्य मतान्तरमुपक्षिपन्नाह-नयमयणाण
क०
For Private And Personal Use Only