________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
है
मपि सम्यक्त्वस्य प्रथमस्थिती प्रक्षिपति। मिथ्यावमिनायो प्रथमखितिदलिक सम्यकस्वा प्रथमस्थितिदलिकमध्ये खिघुकसंक्रमेण संक्रमयति । सम्बक्त्वस्य पुनः प्रथमस्थिती विपाक्रानुभवतः क्रमेण क्षीणायां सत्यामुपशमसम्यग्दृष्टिर्भवति । उपरितनदलिकस्य चोपशमना वयाणामपि मिथ्यात्वादीनामनन्तानुबन्धिनामुपरितनस्थितिदलिकस्यैवावसेवा । एवमुपशान्तदर्शनमोहनीयत्रिकश्चारित्रमोहनीयमुपशमयितुकामा पुनरपि यथाप्रवृत्तादीनि त्रीणि करणानि करोति । करणानां च स्वरूपं प्राग्वदवगन्तव्यम् । केवलमिह यथाप्रवृत्तकरणमप्रमत्तगुणस्थाने भवति । अपूर्वकरणमपूर्वकरणगुणचानके। अत्रापि स्थितिघातादयः पूर्ववदेव । अपूर्वकरणाद्धायाश्च संख्येयभार गते सति निद्राषचलयोर्वन्धव्यवच्छेदः । ततः प्रभूतेषु स्थितिखण्डसहस्रेषु गतेषु सत्स्वपूर्वकरणाद्धायाः संख्येया भागा गता भवन्ति । अस्मिंश्वाम्तरे देवगति १ देवानुपूर्वी २ पञ्चेन्द्रियजाति ३ वैक्रिया ४ ऽऽहारक ५ तैजस ६ कार्मण ७ समचतुरखा ८ वैक्रिया ९ ऽऽहारकाङ्गोपाल १० वर्णादिचतुष्का १४ गुरुलघू १५ पचात १६ पराघातो १७ पास १८वस १९बादर २० पर्याप्त २१ प्रलोका २२ प्रशस्तविहा योगति १३ स्थिर २४ शुभ १५ सुभग २६ सुस्वरा २७७देय २८ निर्माण २९ तीर्थकर ३० संज्ञितानां त्रिंशतःप्रकृतीनां बन्धव्यवच्छेदः। ततः खितिखण्डपृथक्त्वे गते सत्यपूर्वकरणाद्धायाश्चरमसमये हास्यरतिभयजुगुप्सानां बन्धव्यवच्छेदः। उदयव्यवच्छेदश्च सर्वेकर्मणां देशोपचमनानिधत्तिनिकायमाकरणच्यवच्छेदश्च ततोऽनन्तरसमयेऽनिवृत्तिकरणे प्रविशति । तत्रापि स्थितिघातादीनि पूर्ववस्करोति । ततोऽनिवृत्तिकरणाद्धाया संस्थेयेषु भागेषु गतेषु सत्सु दर्शनसप्तकशेषाणामेकविंचतेर्मोहनीयप्रकृतीनामन्तरकरणं करोति । तत्र यस्य वेदल संज्वलमख्य चोदयोऽस्ति वयोः स्वोदयकालप्रमाणां प्रथम
SHRSS
क०२६
For Private And Personal Use Only