________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडशीतिप्रकरणम्॥१२३॥
टीकाद्धयो|पेतम् ॥
भवतीति प्रतिपत्तये योगानन्तरं लेश्योपादानमिति । यद्यपि चेह सामान्येनोक्तं जीवस्थानाद्यभिधास्ये इति, तथाऽप्येवं विशेषतो द्रष्टव्यम् । जीवस्थानकेषु-गुणस्थानक १ योगो २ पयोग ३ लेश्या ४ कर्मबन्धो ५ दयो ६ दीरणा ७ सत्ता ८ वक्ष्ये । मार्गणास्थानकेषु पुनः-जीवस्थानक १ गुणस्थानक २ योगो ३ पयोग ४ लेश्या ५ ल्पवहुत्वानि ६ । गुणस्थानकेषु च-जीवस्थानक १ योगो २ पयोग ३ लेश्या ४ बन्धहेतु ५ वन्धो ६ दयो ७ दीरणा ८ सत्ता ९ ऽल्पबहुत्वानि १० । इति तथैव सूत्रकृता वक्ष्यमाणत्वात् ॥२॥
तत्र 'यथोद्देशं निर्देशः' इति न्यायात्प्रथमतस्तावज्जीवस्थानानि निरूपयन्नाहइह सुहमबायरेगिदिबितिचउअसन्निसन्निपंचिंदी । अपजत्ता पज्जत्ता, कमेण चउदस जियहाणा ॥३॥
(हारि०) व्याख्या-इह सर्वत्र यथासंभवं लिङ्गव्यत्ययविभक्तिलोपादिकं प्राकृतत्वाद्रष्टव्यम् । 'इह' जीवस्थानादिषु मध्ये सूक्ष्मबादरभेदादेकेन्द्रिया द्विधा, द्वित्रिचतुरिन्द्रियास्त्रयः, असंज्ञिसंज्ञिभेदात्पश्चेन्द्रिया दिभेदाः, एवमेते सस । सप्ताप्यपर्याप्ताः पर्याप्साश्चैवं क्रमेण तावच्चतुर्दश जीवस्थानानि भवन्तीति शेषः। इति गाथार्थः ॥३॥
साम्प्रतमेतेषु गुणस्थानकानि संबन्धपूर्वकं गाथाबयेनाह(मल०) 'इह' अस्मिन् जगति अनेन क्रमेण चतुर्दश जीवस्थानानि प्राग्निरूपितशब्दार्थानि भवन्ति, केन क्रमेण? इति चेत्, आह-सूक्ष्मबादरैकेन्द्रियद्वित्रिचतुरसंज्ञिसंज्ञिपञ्चेन्द्रियाः, एते च सर्वेऽपि प्रत्येक पर्याप्तका अपर्याप्तकाश्चेति । तत्र एक
ROCECRECCASSACRACCICS
॥
७
॥
For Private And Personal Use Only