________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मस्तवः ॥७९॥
4%AE
-CA
इत्युक्तः सत्ताव्यवच्छेदोद्देशः । इदानी बन्धादिव्यवच्छेदोद्देशेषूद्दिष्टानां षोडशादीनां प्रकृतिसंख्यानां प्रतिनिर्देशायटीकोपेतः । मूलप्रकृत्युत्तरप्रकृतीदर्शयितुमाहनाणस्स दंसणस्स य, आवरणं वेयणीयमोहणियं । आउय नाम गोयं, तहतरायं च पयडीओ॥९॥ |पंच नव दोन्नि अट्ठा-वीसा चउरो तहेव बायाला। दोषिण य पंच य भणिया,पयडीओ उत्तरा चेव ॥१०॥ I गाथे युगपव्याख्यायेते-ज्ञानस्यावरणं पञ्चविधं भवति । तद्यथा-आभिनिबोधिकज्ञानावरणं १ श्रुतज्ञानावरणं २ ४ अवधिज्ञानावरणं ३ मनःपर्यायज्ञानावरणं ४ केवलज्ञानावरणमिति १॥ दर्शनस्यावरणं नवविधम् । तद्यथा-निद्रा १ दानिद्रानिद्रा २ प्रचला ३ प्रचलाप्रचला ४ स्त्यानार्द्धः ५ चक्षुर्दर्शनावरणं ६ अचक्षुर्दर्शनावरणं ७ अवधिदर्शनावरणं ८ केव-|
लदर्शनावरणं ९ चेति २॥ वेदनीयं द्विविधम्-सातवेदनीयं १ असातवेदनीयं २ चेति ३॥ मोहनीयमष्टाविंशतिविधम्। |तिम्रो दर्शनमोहनीयप्रकृतयः-मिथ्यात्वं १ सम्यग्मिथ्यात्वं २ सम्यक्त्वं ३ चेति । पञ्चविंशतिश्चारित्रमोहनीयप्रकृतयः । &ा तद्यथा-पोडश कषायाः १६ नव नोकषायाः २५ । तत्र कषायाः-अनन्तानुबन्धी क्रोधो मानो माया लोभश्च ४,
अप्रत्याख्यानावरणः क्रोधो मानो माया लोभश्च ८,प्रत्याख्यानावरणः क्रोधो मानो माया लोभश्च १२, संज्वलनः क्रोधो ॥११॥ || मानो माया लोभश्च १६ इति षोडश कषायाः । नव नोकषायास्तु-वेदत्रयं हास्यादिषर् च । वेदत्रयम्-स्त्रीवेदः १ पुंवेदः २ नपुंसकवेदः ३ इति । हास्यादिषद.च-हास्यं १ रतिः २ अरतिः ३ शोकः ४ भयं ५ जुगुप्सा ६ इत्यष्टार्विशतिधा मोहनीयमुक्तम् ४॥ आयुष्कं चतुधों-नारकायुष्कम् १ तिर्यगायुष्कम् २ मनुष्यायुष्कम् ३ देवायुष्क ४ मिति५॥
।
For Private And Personal Use Only