________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
64-
नाम द्विचत्वारिंश दम् । तद्यथा-चतुर्दश पिण्डप्रकृतयः १४, अष्टाविंशतिः प्रत्येकप्रकृतयः २८ इति द्विचत्वारिंशत् ।। पिण्डप्रकृतयस्तावत्-गतिनाम १ जातिनाम २ शरीरनाम ३ शरीराङ्गोपाङ्गनाम ४ शरीरबन्धननाम ५ शरीरसङ्घातननाम ६ संहनननाम ७ संस्थाननाम ८ वर्णनाम ९ गन्धनाम १. रसनाम ११ स्पर्शनाम १२ आनुपूर्वीनाम १३ विहायोगतिनाम १४ इति चतुर्दश । एतासां तावनेदा दर्श्यन्ते । गतिनाम चतुर्विधम् नारकगतिनाम १ तिर्यग्गतिनाम २ मनुष्यगतिनाम ३ देवगतिनाम ४ इति । जातिनाम पञ्चविधम्-एकेन्द्रियजातिनाम १द्वीन्द्रियजातिनाम २ त्रीन्द्रियजातिनाम ३ चतुरिन्द्रियजातिनाम ४ पञ्चेन्द्रियजातिनाम ५ इति । शरीरनाम पञ्चविधम्-औदारिकशरीरनाम १ वैक्रियशरीरनाम २ आहारकशरीरनाम ३ तैजसशरीरनाम ४ कार्मणशरीरनाम ५ इति । अङ्गोपाङ्ग त्रिविधम्-औदारिका
ङ्गोपाङ्गम् १ वैक्रियाङ्गोपाङ्गम् २ आहारकाङ्गोपाङ्गं ३ चेति । बन्धनं पञ्चविधम्-औदारिकबन्धनादि शरीरवत् ५ ।। म सङ्कातनामापि तथैव ५। संहनननाम पडिधम्-वज्रर्षभनाराचम्१ ऋषभनाराचम् ३ नाराचम् ३ अर्द्धनाराचम् ४ कीलिका५
सेवाः ६ चेति । संस्थाननाम पड्डिधम्-समचतुरस्रम् १ न्यग्रोधपरिमण्डलम् २ सादि ३ वामनम् ४ कुब्जम् ५ हुण्डं ६ चेति । वर्णनाम पश्चविधम् कृष्णम् १ नीलम् २ लोहितम् ३ हारिद्रम् ४ शुक्लं ५ चेति । गन्धनाम द्विविधम् -सुरभिनाम १ दुरभिनाम २ चेति । रसनाम पञ्चविधम्-तिक्तम् १ कटुकम् २ कषायम् ३ अम्लम् ४ मधुरं ५ चेति । स्पर्श-* |नाौष्टविधम्-कर्कशम् १ मृदु २ गुरु ३ लघु ४ शीतम् ५ उष्णम् ६ स्निग्धम् ७ रूक्षं चेति । आनुपूर्वी चतुर्विधा-15 दि. "तदिदानीं नाम भण्यते, तद्विचत्वारिंशद्विधम् ।" इति वा पाठः।२"साति ३" इत्यपि । ३. "द्विधा" इति वा। "माष्टधा" इति पाठः॥
%ERAL
For Private And Personal Use Only