________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsur Gyanmandir
बाहर
धारणम् । इति गाथार्थः॥७६॥
उक्ता गतिजातिशरीराङ्गोपाङ्गविभागाः, साम्प्रतं संहननादिभेदानाह(पारमा० ) गतिर्भवति चतुर्भेदा ४ नरकगत्यादिभेदात् । जातिरपि च पञ्चधा ९एकेन्द्रियजात्यादिभेदाज् ज्ञातव्या । पश्च च भवन्ति शरीराणि १४ औदारिकादिभेदात् । अङ्गोपाङ्गानि त्रीण्येव १७, न तु पश्चाप्याद्यशरीरत्रय एव तद्भावात् ॥७६॥ छ स्संघयणा जाणसु, संठाणावि य हेवंति छ च्चेव । वण्णाईण चउक्कं, अगुरुलहुवघायपरघायं ॥७७॥ ___ व्याख्या-षट् संहननानि 'जानीहि' विद्धि वज्रर्षभनाराच १ ऋषभनाराच २ नाराचा ३ऽर्द्धनाराच ४| कीलिका ५ छेवट (सेवा) रूपाणि । संस्थानान्यपि च तथैव षडेव यथा संहननानि,-समचतुरस्र १. न्यग्रोधमण्डल २ सादि ३ वामन ४ कुञ्ज ५ हुण्ड ६ रूपाणि । वर्ण आदिर्येषां ते वर्णादयः तेषां, चतुष्कं वर्ण १ गन्ध २ रस ३ स्पर्श ४ लक्षणम् । अगुरुच लघु च अगुरुलघुनाम भवति ज्ञातव्यम् । उपघातश्च पराघातश्चोपघातपराघातं भवति ज्ञातव्यम् । इति गाथार्थः॥ ७७ ॥ उक्ताः संहननादयः आनुपूव्योंदीनाह
(पारमा०) षट्र संहननानि २३ वज्रर्षभनाराचादीनि जानीहि । संस्थानान्यपि च २९ समचतुरस्रादीनि भवन्ति पडेव । 'वर्णादीनां' वर्णगन्धरसस्पर्शानां चतुष्कं ३३, अवान्तरभेदाविवक्षणात् । अगुरुलघु ३४ उपघात ३५ पराघातम् ३६ ॥७७॥
१ व्याख्याकारेण तु-"तहेब" इति पाठानुसारेण व्याख्या कृता ।।
For Private And Personal Use Only