________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नाम ३८ | यशश्च कीर्त्तिश्च यशः कीर्त्ती, तल्लक्षणं नाम यशः कीर्त्तिनाम, यशसा उपलक्षिता वा कीर्त्तिर्यशः कीर्त्तिः । " दानपुण्यफला कीर्त्तिः, पराक्रमकृतं यशः” इतिवचनात्, यदुद्याद्यशः कीर्त्तिर्भवति जीवस्य तद्यशः कीर्त्ति नाम ३९ । अयशः प्रधाना कीर्त्तिरयशः कीर्त्तिः, यदुदयाज्जीवस्य लोका अवर्णवादादीन् गृह्णन्ति तद्यशः कीर्त्तिनाम ४० । 'निम्माणं' इति निर्माणनाम, यदुदद्याज्जीवः स्वाङ्गावयवानां नियमनं विधते नासिकादयो नासिकादिस्थान एव, नान्यत्र, इत्येवंभूतव्यवस्थानिबन्धनं नाम तन्निर्माणनाम सूत्रधारसदृशम् ४१ । तीर्थकरणशीलं तीर्थकरं, यदुदये सुरासुर नरेन्द्रनिवहैः पूज्यः सर्वविद्भवति, तीर्थं च भावरूपं यदुदयात्प्रवर्तयति जीवस्तत्तीकरनाम ४२ । एते प्रथमा द्विचत्वारिंशतो 'भेदा:' विशेषाः, 'भेदानामपि' विशेषाणामपि 'भवन्ति' जायन्ते 'इमे' वक्ष्यमाणलक्षणा भेदाः । इति गाथार्थः ॥ ७५ ॥
उक्त द्विचत्वारिंशत्, इदानीं सप्तषष्टिमाह
( पारमा० ) प्रथमा द्विचत्वारिंशदियं भवतीति गम्यते । गति १ जाति २ शरीर ३ अङ्गोपाङ्गानि ४ च । बन्धन ५ सङ्घातन ६ संहनन ७ संस्थाननाम ८ चेति । नामशब्दस्य गत्यादिभिः प्रत्येकं योगः ॥७१॥ तथा वर्ण ९ गन्ध १० रस ११ स्पर्शनाम | १२, इत्यत्रापि वर्णादिभिर्योज्यम् । अगुरुलघुकं च बोद्धव्यम् १३ । उपघात १४ पराघात १५ आनुपूर्वी १६ उच्छ्रासनाम १७ च, इत्यगुरुलध्वादिभिर्योज्यं, आतपादिभिश्च ॥ ७२ ॥ आतप १८ उद्योत १९ विहायोगतयः २० त्रस २१ स्थावरा २२६भिधानं च । त्रसं च स्थावरं च त्रसस्थावरम्, इत्यादौ द्वन्द्वनिर्देशः । त्रसस्थावरादीनां यशः कीर्त्त्ययशः कीर्त्तिपर्यन्तानां
For Private And Personal Use Only