________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
सरस्व
शयविशुद्धिरनन्तरं स्तववचनस्य प्रयोजनं शिष्यानुग्रहश्च । श्रोतणामपि स्वाशयविशुद्धिरावगतिश्च । पारम्पर्येण तु स्वाशयविशुद्धरुत्तरोत्तरविशुद्धिफलत्वादुभयेषां परमविशुद्ध्यात्मको निःश्रेयस इति प्रयोजनम् । अमिधेयं च बन्धादिन्यवच्छेदरूपमर्हद्गुणनिकुरुम्बम् । संबन्धश्च स्तवप्रयोजनयोरुपायोपेयभावः । स्तवाभिधेययोस्तु वाच्यवाचकमाव इति दर्शित वेदितव्यम् ॥१॥ | कर्मणां च भगवतो न सर्वेषां युगपदेव बन्धादिव्यवच्छेदः, किं तर्हि !, मिथ्यादृष्ट्यादीनि गुणस्थानानि परमपदमासादशिखरारोहणसोपानकल्पानि क्रमेणाधिरोहतः क्वचिदेव गुणस्थाने कियत्योऽप्येव कर्मप्रकृतयो बन्धमुदयमुदीरणां सत्ता वा प्रतीत्य व्यवच्छिली, तत्र तावद्वन्ध प्रतीत्य व कियत्यो व्यवच्छिन्नाः इत्येसदाहमिच्छे सोलस पणुवी-स सासणे अविरए य दस पयडी।चउछक्कमेग देसे,धिरए य कमेण वोच्छिन्ना॥२॥
अधुना सुखप्रतिपत्त्यर्थं तावद्गुणस्थानानि लेशती व्याख्याय पश्चादिमां गाथा व्याख्यास्यामः । तानि च गुणस्थानानि चतुर्दशधा, तद्यथा-मिथ्यादृष्टिगुणस्थानम् १, सासादनसम्यग्दृष्टिगुणस्थानम् २, सम्यग्मिध्यादृष्टिगुणस्थानम् ३, अविरतसम्यग्दृष्टिगुणस्थानम् ४, देशविरतगुणस्थानम् ५, ममत्तसंयतगुणस्थानम् ६, अप्रमत्तसंयतगुणस्थानम् ७, अपूर्व
१" पत्तिश्च । " इति वा पाठः ॥ २ कर्मस्तवमूलपुस्तकेष्वेतद्गाथाद्वन्द्वं दृश्यते-“मिच्छविट्ठी १ सासायणे २ य तह सम्ममिच्छदिट्ठी ३ य । अविरयसम्मदिट्ठी ४, विरयाविरए ५ पमते ६ य॥१॥ तत्तो य अप्पमत्ते ७, नियटि ८ अनियट्टिबायरे ९ सुहुमे १०। उवसंत ११ खीणमोहे १२, होइ सज़ोगी १३ अजोगी १४ य ॥२॥" परं टीकाया अभावेन नादृतं मूले ॥
ELOPME
For Private And Personal Use Only