Book Title: Panchastikay
Author(s): Kundkundacharya, Shreelal Jain Vyakaranshastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

Previous | Next

Page 12
________________ षद्रव्य-पंचास्तिकायवर्णन त्रिधा देवता कथ्यते । केन, इष्टाधिकृताभिमतभेदेन । आशीर्वस्तुनमस्क्रियाभेदेन नमस्कारविधा। तच्च मंगलं द्विविधं मुख्यामुख्यभेदेन । तत्र मुख्यमंगलं “कथ्यते आदौ मध्येऽवसाने च मंगलं भाषितं बुधैः" ! तज्जिनेन्द्रगुणस्तोत्रं तदविघ्नप्रसिद्धये ॥४॥" तथा चोक्तं "विघ्नाः प्रणश्यन्ति भयं न जातु न क्षुद्रदेवाः परिलंघयन्ति । अर्थात् यथेष्टाश्च सदा लभन्ते जिनोत्तमानां परिकीर्तनेन ।।५।।" "आई मंगलकरणे सिस्सा लहु पारगा हवातात्त । मज्झे अव्युच्छात्ति विज्जा विज्जाफलं चरिमे ।।६।।" अमुख्यमंगलं कथ्यते-"सिद्धत्थ पुण्णकुंभो वंदणमाला य पंडुरं छत्तं । सेदो वण्णो आदस्स गाय कण्णा य जत्तस्सो ।।७।। वणियमसंजमगुरोहिं साहिदो जिणवरेहिं परमट्ठो । सिद्धासण्णा जेसिं सिद्धत्था मंगलं तेण ||८॥ पुण्णा मणोरहेहि य केवलणाणेण चावि संपुण्णा । अरहंता इदि लोए सुमंगलं पुण्णकुम्भो दु ।।९।। णिग्गमणपवेसम्हि य इह चउवीसपि वंदणीज्जा ते । वंदणमालेत्ति कया मरहेण य मंगलं तेण ।।१०॥ सव्वजणणिव्वुदियरा छत्तायारा जगस्स अरहंता। छत्तायारं सिद्धित्ति मंगलं तेण छत्तं तं ॥११॥ सेदो वण्णो झाणं लेस्सा य अधाइसेसकम्मं च । अरुहाणं इदि लोए सुमंगलं सेदवण्णो दु ।।१२।। दीसइ लोयालोओ केवलणाणे तहा जिणिदस्स। तह दीसइ मुकुरे विंबु मंगलं तेण तं मुणह ।।१३।। जह वीयराय सब्वण्हु जिणवरो मंगलं हवइ लोए । हयरायबालकण्णा तह मंगलमिदि विजाणाहि ॥१४।। कम्मारिजिणेविणु जिणवरेहिं मोक्खु जिणाहिवि जेण । जं चउर उअविवलाजिणइ मंगलु वुच्चइ तेण ।।१५।।" . अथवा निबद्धानिबद्धभेदेन द्विविधं मंगलं तेनैव ग्रन्थकारेण कृतं । निबद्धमंगलं यथामोक्षमार्गस्य नेतारमित्यादि । शास्त्रान्तरादानीतो नमस्कारोऽनिबद्धमङ्गलं यथा-जगत्त्रयनाथायेत्यादि। अस्मिन्प्रस्तावे शिष्यः पूर्वपक्षं करोति किमर्थं शास्त्रादौ शास्त्रकाराः मंगलार्थ परमेष्ठिगुणस्त्रोत्रं कुर्वन्ति यदेव शास्त्रं प्रारब्धं तदेव कथ्यतां मंगलमप्रस्तुतं । न च वक्तव्यं, मंगलनमस्कारेण पुण्यं भवति पुण्येन निर्विघ्नं भवति इति । कस्मान वक्तव्यमिति चेत् ? व्यभिचारात् । तथाहि- क्वापि नमस्कारदानपूजादिकरणेपि विघ्नं दृश्यते, क्वापि दानपूजानमस्काराभावेपि निर्विघ्नं दृश्यत इति । आचार्याः परिहारमाहुः । तदयुक्तं, पूर्वाचार्या इष्टदेवतानमस्कारपुरस्सरमेव कार्य कुर्वन्ति, यदुक्तं भवता-नमस्कारे कृते पुण्यं भवति पुण्येन निर्विघ्नं भवति इति न च वक्तव्यं तदप्युक्तं । कस्मात् ? देवतानमस्कारकरणे पुण्यं भवति तेन निर्विघ्नं भवतीति तर्कादिशास्त्रे सुव्यवस्थापितत्वात् । पुनश्च यदुक्तं त्वया व्यभिचारो दृश्यते तदप्ययुक्तं । कस्मादिति चेत् ? यत्र देवतानमस्कारदानपूजादिधर्म कृतेपि विघ्नं भवति तत्रेदं ज्ञातव्यं पूर्वकृतपापस्यैव फलं तत्, न च धर्मदूषणं, यत्र पुनर्देवतानमस्कारदानपूजादिधर्माभावेपि निर्विघ्नं दृश्यते तत्रेदं ज्ञातव्यं पूर्वकृतधर्मस्यैव फलं तत् न च पापस्य । पुनरपि शिष्यो ब्रूते-शास्त्रं मंगलममंगलं वा ? मंगलं चेत्तदा मंगलस्य मंगलं कि प्रयोजनं, यद्यमंगलं, तर्हि तेन शास्त्रेण किं प्रयोजनं । आचार्याः परिहारमाहुः-- भक्त्यर्थं मंगलस्यापि मंगलं क्रियते। तथा चोक्तं--"प्रदीपेनार्चयेदर्कमुदकेन महोदधिम् । वागीश्वरी तथा वाग्भिमंगलेनैव मंगलम् ।।१६॥' किं च । इष्टदेवतानमस्कारकरणे प्रत्युपकारं स्मृतं कृतं भवति ।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 421