Book Title: Panchastikay
Author(s): Kundkundacharya, Shreelal Jain Vyakaranshastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

Previous | Next

Page 11
________________ पंचास्तिकाय प्राभृत द्रव्यपञ्चास्तिकायप्रतिपादकत्वात् अथवा पूर्वापरविरोधादिदोषरहितत्वात् अथवा कर्णाटमागधमालवलाटगौडगुर्जरप्रत्येकं त्रयमित्यष्टादशमहाभाषासप्तशतक्षुल्लकभाषातदन्त दगतबहुभाषारूपेण युगपत्सर्वजीवानां स्वकीयस्वकीयभाषायाः स्पष्टार्थप्रतिपादकत्वात्प्रतिपत्तिकारकत्वात् सर्वजीवानां ज्ञापकत्वात् विशदं स्पष्ट व्यक्तं वाक्यं दिव्यध्वनिर्येषां त्रिभुवनहितमधुरविशदवाक्यास्तेभ्यः । तथा चोक्तं-“यत्सर्वात्महितं न वर्णसहितं न स्पन्दितोष्ठद्वयं, नो वांछाकलितं न दोषमलिनं नोच्छवासरुद्धक्रमं । शान्तामर्षविषैः समं पशुगणैराकर्णितं कर्णिभिस्तन्न: सर्वविदो विनष्टविपद: पायादपूर्वं वचः ।।१।।" इत्यनेन वचनातिशयप्रतिपादनेन तद्वचनमेव प्रमाणं न चैकान्तेनापौरुषेयवचनं न चित्रकथाकल्पितपुराणवचनं चेतीत्युक्तं भवति । अन्तातीतद्रव्यक्षेत्रकालभावपरिच्छेदकत्वादन्तातीतं केवलज्ञानगुणः स विद्यते येषां तेऽन्तातीतगुणास्तेभ्य इत्येनन ज्ञानातिशयप्रतिपादनेन बुद्ध्यादिसप्तर्द्धिमतिज्ञानादिचतुर्विधज्ञानसंपन्नानामपि गणधरदेवादियोगीन्द्राणां वंद्यास्ते भवन्तीत्युक्तं । जितो भवः पञ्चप्रकारसंसार आजवंजवो यैस्ले जितभवास्तेभ्य इत्यनेन घानिक पायातिशयप्रतिपादनेन कृतकृत्यत्वप्रकटनादन्येषामकृतकृत्यानां त एव शरणं नान्य इति प्रतिपादितं भवति। एवं विशेषणचतुष्टययुक्तेभ्यो नमः, इत्यनेन मंगलार्थमन्तज्ञानादिगुणस्मणरूपो भावनमस्कार: कृतः । इदं विशेषणचतुष्टयं अनेकभवगहनविषयव्यसनाप्रापणहेतून् कर्मारातीन् जयतीति जिनः इति व्युत्पत्तिपक्षे श्वेतशंखवत्स्वरूपकथनार्थं, अव्युत्पत्तिपक्षे नामजिनव्यवच्छेदनार्थं । एवं विशेष्यविशेषणसंबन्धरूपेण शब्दार्थ: कथितः । अनन्तज्ञानादिगुणस्मरणरूपभावनमस्कारोऽशुद्धनिश्चयनयेन, नमो जिनेभ्य इति वचनात्मकद्रव्यनमस्कारोप्यसद्भूतव्यवहारनयेन, शुनिश्चयनयेन स्वस्मिन्नेवाराध्याराधकभाव इति नयार्थोप्युक्तः । त एव नमस्कारार्हा नान्ये चेत्यादिरूपेण मतार्थोप्युक्तः । इन्द्रशतवन्दिता इत्यागमार्थः प्रसिद्ध एव । अनन्तज्ञानादिगुणयुक्तशुद्धजीवास्तिकाय एवोपादेय इति भावार्थः । अनेन प्रकारेण शब्दनयमतागमभावार्थः सूचितः अनेन प्रकारेण शब्दनयमतागमभावार्थ व्याख्यानकाले सर्वत्र योजनीयमिति संक्षेपेण मंगलार्थमिष्टदेवतानमस्कारः कृतः । मंगलमुपलक्षणं निमित्तहेतुपरिमाणानामकर्तृरूपाः पश्चाधिकाराः यथासंभवं वक्तव्याः । इदानीं पुनर्विस्तररुचिशिष्याणां व्यवहारनयमाश्रित्य यथाक्रमेण मंगलादिषड़धिकाराणामियत्ता परिमितविशेषणव्याख्यानं क्रियते "मंगल-णिमित्त-हेऊ परिमाणा णाम तह य कत्तारं । घागरिय छप्पि पच्छा वक्खाणउ सत्य-माइरिओ ।।२।।" "वक्खाणउ-व्याख्यातु । स कः कर्ता । आइरिओ-आचार्यः । किं । सत्थं-शास्त्रं । पच्छा-पश्चात् । किंकृत्वा पूर्वं । वागरिय-व्याकृत्य व्याख्याय । कान् । छप्पि-षडपि मंगलणिमित्तहेऊ परिमाणा णाम तह य कत्तारं-मंगलनिमित्तहेतुपरिमाणनामकर्तृत्वाधिकाराणीति । तद्यथा-मलं पापं गालयत्ति विध्वंसयतीति मंगलं, अथवा मंगं पुण्यं सुखं तल्लाति आदते गृह्णाति वा मंगलं । चतुष्टयफलं समीक्ष्यमाणा ग्रन्थकारा: शास्त्रस्यादौ त्रिधा देवतायास्त्रेधा नमस्कारं कुर्वन्ति मंगलार्थ ।। "नास्तिक्यपरिहारस्तु शिष्टाचारप्रपालनम् । पुण्यावाप्तिश्च निर्विघ्नं शास्त्रादौ तेन संस्तुतिः ॥३॥"

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 421