Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तदा तव प्रसूतिः विफला कौतस्कुती भवेत् । तव जन्म सफलं भवेदिति तात्पर्यम् । इत्यास्रवानुप्रेक्षा । ८. संवरानुप्रेक्षा संवर आस्रवस्य विरोधी । चारित्ररक्षणया संवर उत्पद्यते । सोमदेवसूरिर्वदति -
आगच्छतोऽभिनवकार्मणरेणुराशेः जीवः करोति यदवस्खलनं वितन्द्रः । सत्तत्त्वचामरधरैः प्रणिधानहस्तैः
सन्तो विदुस्तमिह संवरमात्मनीनम् ॥ अत्र सावयवरूपकालङ्कारः । कार्मणरेणुराशिः । सत्तत्त्वचामराणि । प्रणिधानहस्ताः इत्यत्र स ज्ञेयः । आत्मनीनमित्यस्य आत्मने हितमित्यर्थः । इदं संवरस्य सुन्दरं विवरणम् ।
यस्त्वां विचिन्तयति संचरते विचारैश्चार्वी चिनोति परिमुञ्चति चण्डभावम् । चेतो निकुञ्चति समञ्चति वृत्तमुच्चैः ।।
स क्षेत्रनाथ ! निरुणद्धि कृती रजांसि ॥ हे क्षेत्रनाथ ! आत्मन् ! । क्षेत्रं शरीरं तस्य नाथः पतिः । त्वं कृती सन् रजांसि निरुणद्धि इति उपदेशः।
नीरन्ध्रसन्धिरवधीरितनीरपूरः पोतः सरित्पतिमपैति यथाऽनपायः । जीवस्तथा क्षपितपूर्वतपःप्रतानः
क्षीणास्रवश्च परमं पदमाश्रयेत ॥ पोतोऽत्रोपमानत्वेन निर्दिष्टः । स नीरन्ध्रसन्धिश्चेत् समुद्रं तरति । तथा क्षीणास्रव आत्मा संसारं तीर्खा परमं पदम् आश्रयिष्यतीति संवरानुप्रेक्षा कर्तव्या । ९. लोकानुप्रेक्षा
वेत्रासनझल्लरीमृदङ्गाकारेण लोकत्रयं स्थितं जैनदर्शनानुसारेण । मनुष्यलोके अल्पं सुखम् अधिकं दुःखम् । नरके केवलं दुःखम् । ऊर्ध्वलोके सुखाधिक्यम् । सोमदेवः पद्येनैकेन वर्णयति लोकम् -
मध्याधरोर्ध्वरचनः पवनत्रयान्तस्तुल्यः स्थितेन जघनस्थकरेण पुंसा । एकस्थितिस्तव निकेतनमेष लोक
स्त्रस्यन्निकीर्णजठरोऽग्रनिषण्णलोकः ॥ अस्य लोकस्य न कश्चित् कर्ताऽस्तीति पद्यान्तरेणाऽह -

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136