Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 102
________________ उत्कष्टमयवृत्तमपि स्वीकार्यं मुदा ।" आपणिकोऽभिभूतो गणितज्ञस्येममुत्तमं विचारबिन्दुं श्रुत्वा । स्वजीवनेऽपि शिक्षामिमामाचरितुं तत्परोऽभूत् सः । (२) उत्तमा जीवरक्षा । अस्मिन् जगति सर्वे जीवा जीवितुं प्रयतन्ते । परमत्यल्पजना अन्येषां सत्त्वानां जीवनपरित्राणाय प्रयतन्ते । यैः स्वजीवनं सम्यग् जीवितुं प्रयस्यते ते सामान्यजनाः सन्ति । परमन्येषां जीवनपरित्राणाय यैः प्रयस्यते ते नितरां श्रेष्ठजनाः सन्ति । अत्र प्रस्तुता कथा प्रसिद्धस्यैतादृशस्य श्रेष्ठजनस्यैव जीवनमुत्तमतया दर्शयति - भारतजनपदानामासीत् स महान् स्वातन्त्र्यवीरः । तन्नाम महात्मगान्धिवर्यः । प्रत्यहं प्रातराशे महात्मगान्धिवर्यो जलेऽम्लजम्बीररसं क्षिप्त्वा पिबति स्म । एकदा दैनिकोपक्रमानुसारं गान्धिवर्यस्य सहचरो महादेवदेसाईवर्यः क्वथिते जलेऽम्लजम्बीररसमक्षिपत् । जलं चाऽनाच्छादितमेव न्यस्यत् । जलादत्युष्णो बाष्प उत्क्षिपति स्म । कानिचित् क्षणानि व्यतीतानि । पश्चाद् गान्धिवर्य आगतः । महादेवदेसाईवर्यः क्वथितजलाम्लजम्बीररसभृतं लघुपिठरं गान्धिवर्याय दत्तवान् । गान्धिवर्यो नीरपात्रं समीपं स्थापितवान् । तत् च निरीक्षितवान् । अद्यापि पात्रं तद् बाष्पसंयुक्तं दृश्यते स्म । अवलोक्येदं गान्धिवर्यो महादेवदेसाईवर्यमुक्तवान् – “भोः ! त्वं क्वथितं जलजम्बीरपात्रमिदमाच्छादयिष्यस्तर्हि बहु समीचीनमभविष्यत् ।" तदा सरदारवल्लभभाईपटेलवर्योऽपि तत्रैवोपतिष्ठति स्म । गान्धिवर्यस्य वचनं श्रुत्वा तेन प्रतिध्वनितं - "रे ! पञ्चषाणि क्षणानि यावत् क्वथितं जलपात्रमिदं निराच्छादितं स्थितं तस्मिन् कः बाधः ? कतिभिः क्षणैरत्रैवोपविष्टोऽहम् । तत्रान्तरेऽस्मिन् पात्रे किञ्चिदपि न पतितम् ।" अथ महात्मगान्धिवर्योऽद्भुतमुत्तरमददात् – “मित्र ! जलपात्रे कामं किञ्चिदपि न पतेत् । किन्तु जलादत्युष्णबाष्पो निर्गच्छति । अनेन कारणेन नैके सूक्ष्मजन्तवो मरणोन्मुखा भवितुमर्हन्ति, तत् किमुचितं प्रतिभाति ?" सरदारवल्लभभाईपटेल-महादेवदेसाईवर्यावहोभावान्वितावभवतां श्रुत्वेदमुत्तरमनुत्तमम् । कीदृशी प्रशस्यतमाऽहिंसावृत्तिः ??? वस्तुत ईदृशी महती सर्वजीवपरित्राणवृत्तिः सर्वसत्त्वेषु आवश्यक्यस्ति । अत्र स्मरणमिदमुचितं यद् यथास्मज्जीवनं प्रियतममनुभवामो वयं तथाऽन्ये जीवा अपि स्वजीवनमनुभवन्ति प्रियतममेव । अस्मभ्यं न रोचते मरणं, तहि तेभ्योऽपि न रोचते मृत्युः । इतो वयमन्येषां जीवानां जीवनं प्राणविमुक्तं कृत्वा तेभ्यो दुःखं दास्यामस्तर्हि वयमपि भविष्यति काले दुःखमेव प्राप्स्याम इति सत्यमपि नूनमवगन्तव्यम् ।

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136