Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 107
________________ कथा महान् वैज्ञानिकः मुनिमलयगिरिविजयः "आल्बर्ट आइन्स्टाइन" खलु विश्वप्रसिद्धो वैज्ञानिकः । सकले विश्वे तस्य गभीरविद्वत्तायाः कारणेनाऽनेकैर्देशनेतृभिर्वैज्ञानिकैश्चाऽपि स्वस्य देशे तं नेतुं बहवः प्रयत्नाः कृताः । परं स अमेरिकादेशे एव न्यवसत् स्वस्य संशोधनकार्ये चाऽहर्निशं मग्नोऽभवत् । अनेकासां दुर्गमाणां जटिलानां च परिस्थितीनामुपाया विज्ञानाधारितास्तेन शोधिताः । यदा काचिदसाध्यसमस्योद्भवेत् तदा आल्बर्ट आइन्स्टाइनः पत्रोपरि G इति लिखति स्म । एतद् दृष्ट्वा तस्य मित्रेणैकदा पृष्टं - "भो महोदय ! भवता केषाञ्चित् पत्राणामुपरि G इति सज्ञाक्षरः किमर्थं लिखितः?' इति । आइन्स्टाइनोऽवदत् - 'G नाम GOD अर्थाद् विश्ववत्सलो भगवान् । यदा मया किञ्चिन्नाऽवबुध्येत तदा तं जटिलप्रश्नं भगवते समर्पयामि । ततस्तस्य प्रश्नस्योत्तरं प्रभुरवश्यं ददाति' । एवं च तादृशस्याऽपि वैज्ञानिकस्य तस्य भगवति श्रद्धा निश्चलाऽऽसीत् । एकदा, एको विद्वान् आइन्स्टाइनसमीपे आगच्छत् अपृच्छच्च - 'भवान्महान् वैज्ञानिकः संशोधकश्चाऽस्ति । किन्तु भवतः प्रयोगशाला कुत्राऽस्ति ? तामहं द्रष्टुं बहूत्कण्ठितोऽस्मि' । तदा स्मितं कुर्वाण आल्बर्ट आइन्स्टाइनः स्वीयां तर्जनीमङ्गलीमू/कृत्य मस्तिष्कमुपादर्शयत् । अर्थात् तेन सूचितं यन्मे मस्तिष्कमेव मम कृते प्रयोगशालाऽस्ति । यतस्तत्रैव सर्वाऽपि सामग्री तिष्ठति । नूनं महान्तो गुणानपेक्षन्ते न साधनानि । ~~~~~~~

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136