Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 128
________________ अवतीर्य दीर्घिकातो, ह्यसमर्थोऽकृत समर्थसुभटैस्तैः । शक्नुवतामपि शक्नुवद्धियुद्धं कृतं वीरैः ॥५३॥ सर्वोत्कृष्टश्लाघित-शरवर्षनृपो हि शक्नुवंस्तेषाम् । मणिखचितकनकवेष्टितमार्गणैर्लग्नः प्रहर्तुं तान् ॥५४॥ दत्तं गृध्रादीनां, मासमपक्वं ततः पुनस्तेन । रिपुदाहकतेजसाऽपि, तेन शरवर्षिणा नवोल्लासैः ॥५५॥ अगणितशत्रुभयेन, पश्चान्मुक्त्वा स्वकीयमपि सैन्यम् । अत्यक्तकुलाचारं, मुक्तः सिंहध्वनिस्तेन ॥५६॥ सन्त्यक्तभयप्रसरो, निर्भीकमिभाधिपं समारूढः । बाणान् मुञ्चन् दुःखं, क्रोधाद् दुःखी नृपोऽमुञ्चत् ॥५७॥ प्रतारकैर्वञ्चयत्सु, जयलक्ष्म्याऽवञ्चितो महासमरे । नाथावञ्चनशीलैर्न विप्रलब्धः पदातिभिर्नूनम् ॥५८॥ विरचितजयप्रतिज्ञो, रचितव्यूहेऽपि गौजरे सैन्ये । कृत्वा प्रवेशमन्तस्तत्कालं रचितरोमाञ्चः ॥५९॥ रचिते युद्धक्षेत्रे, रचितैरायुधशतैश्च संप्रहरन् । रचितायुधः स नित्यं, यशःश्रियं स्वां समारचयत् ॥६०॥ प्रभुकार्यविरचनेन, संसिक्तस्तव बलेन खलु बाणैः । शीकरसुसिक्तवसुधो, मदसेचनतो गजस्तस्य ॥६१॥ गर्जवृषभा इव ते, गर्जन्तः प्रतिसुभटं च पृच्छन्तः । सुभटा अथ तेऽगर्जन्, कुङ्कणदेशाधिपं द्रष्टुम् ॥६२॥ राजितवर्मशिरस्का, राजितहस्ताः पुनश्च खड्गाग्रैः । राजितसैन्या राजितरणाङ्गणा राजितास्ते च ॥६३॥ भूमज्जितरथचक्रं, मज्जत्तुरगं निमज्जदिभराजम् । मज्जद्योधमिवाऽसृग्मज्जन आसीद् रणस्तेषाम् ॥६४॥ पुञ्जीकृतशरमाला-विस्तारपरो मल्लिकार्जुनो राजा । पुञ्जितनृपलज्जितकैस्तैस्त्रपितो गूर्जरैर्भूयः ॥६५॥ उत्तेजयन् गिराभिः, स क्षत्रियधर्मतत्परान् वीरान् । तेजितकुन्तकृपाणान्, कानपि बाणैः स ताडयामास ॥६६॥

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136