Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 135
________________ स्मरणाञ्जलिः पण्डितवर्यो वेदान्ताचार्यः श्रीवजलाल-उपाध्यायमहोदयः (दिवङ्गतः ६-१०-२०१८) डो. मधुसूदन म. व्यासः जामनगरं नगरं गूर्जरराज्यस्य सौराष्ट्रप्रदेशस्य लघुकाशीति विश्रुतम् । अत्र नगरे बहवो वैयाकरणाः नैयायिकाः, वेदान्तिनः, कवयः, साहित्याचार्याः, षड्दर्शनविदश्च पण्डिता अभवन् गते शतके। जामनगरस्य विद्याप्रियाणां राज्ञां प्रयत्नैः प्रेरणया सहयोगाच्च बहवो विद्यार्थिनः काशीं गत्वा विविधशास्त्राणि च सम्यक् पठित्वा पुनः स्वनगरे समायान्ति स्म, नगरस्थेषु च विद्यालयेषु जिज्ञासून् विद्यार्थिनश्चाऽध्यापयन्ति स्म । एवं च, जामनगरस्य समग्रे सौराष्ट्रप्रदेशे गूर्जरराज्ये च विद्याधाम इति प्रसिद्धिर्जाता । एतादृशानां शास्त्रविदां पण्डितानामन्तिमश्रेण्यास्तेजस्वी नक्षत्र इव विद्योतमानः पण्डितवर्यः श्रीव्रजलाल-उपाध्यायो नवत्यधिकवयाः ६-१०-२०१८ तमे दिनाङ्के दिवङ्गतः । तारुण्य एवाऽधीतवेदान्तविद्यो व्याकरण-साहित्यादिषु च पारगामी पण्डितवर्योऽयं स्वीयैः संस्कारशील-सौजन्य-निःस्पृहतादिगुणैः समग्रेऽपि प्रदेशे प्रथितयशाः समासीत् । विविधशाखीयशास्त्राणां पारगामित्वात् तस्य सकाशाद् यद्यपि बहवो विद्यार्थिनोऽधीतवन्तस्तथाऽपि मुख्यतया तु जैनसाधु-साध्व्यो मुमुक्षवश्चाऽध्ययनं कृतवन्तः पाण्डित्येन सह च गुणवैभवं सुसंस्कारांश्चाऽप्यलभन्त । पण्डितवर्येणाऽनेन स्वीयं समग्रमपि जीवनं ज्ञानदानेनाऽर्थान्निर्वाहार्थमध्यापनवृत्तिं कुर्वतैव यापितम् । स्वकुटुम्बस्याऽऽर्थिक्यावदशायामपि तेन कदाऽपि स्वजातौ सहजवृत्तितया परिगण्यमानं पौरोहित्यं याचकवृत्तित्वं वा नैवाऽऽश्रितम् । सर्वथा निःस्पृहतया गौरवं रक्षता तेन विरक्तभावोऽपि तथाऽऽत्मसात् कृत आसीद् यथा साधुतानिर्लोभतादिगुणैः समग्रेऽपि समाजे तस्य कीर्तिः प्रसृताऽऽसीत् साधवः श्रेष्ठिनश्चाऽपि तस्याऽऽदरसत्कारादि कुर्वाणा अदृश्यन्त । एतादृशस्य श्रीव्रजलाल-उपाध्यायमहोदयस्य प्रणामाञ्जलिं कृत्वा विरमामि । अपि च, त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः । इत्थं मानद ! नाऽतिदूरमुभयोरप्यावयोरन्तरं । यद्यस्मासु पराङ्मुखोऽसि वयमप्येकान्ततो निःस्पृहाः ॥ १२४

Loading...

Page Navigation
1 ... 133 134 135 136