Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 134
________________ कीर्तिव्याप्तत्रिभुवन !, तेन सद्भक्तिव्याप्तहृदयेन । विहिता वैरं हित्वा, तव विज्ञप्तिनराधीश ! ॥१५॥ म्लेच्छाधिपतिः क्षिप्तो, दिल्लीनाथस्त्वया तथा क्षिप्तः । काशीशश्च नरेन्द्र !, क्षिप रिपुनाशन ! ममाऽऽदेशम् ॥१६॥ सर्वस्मिन्नपि कार्ये, सेवकमिव मां नियुक्ष्व भूपाल ! । कं कं त्वं न क्षिपसि ?, न क्षिप्ता क्वाऽपि भवदाज्ञा ॥९७॥ वैर्युत्क्षेपणहस्तमुत्क्षिप्य च तर्जनीं वदामीत्थम् । भवतैव समुत्क्षिप्तं, मम दुर्गं नाऽन्यसंवेक्ष्यम् ॥९८॥ उत्क्षिप्तजयपताका, उल्लासितगुरुकरा भवत्करिणः । पर्वतपाटनयोग्यास्तत् त्वं सर्वान् समाक्षिपसि ॥९९॥ आद्यवराहः स्वपिति, शेषः स्वपिति स्वपन्ति दिक्करिणः । कमठश्चाऽपि स्वपिति, त्वयि भूमीधारकेऽकम्प्रे ॥१००॥ साध्वसकम्पितहृदयाः, कम्पितदेहा वनेऽपि विलपित्र्यः । विलपितशिशवो दयिते, तव रिपुदयिता रुदन्तीव ॥१०१॥ मदसिक्तभूमयस्ते, तुरगाः करिणश्च सन्ति नो व्यग्राः । अप्रतिहतशौण्डीर !, नाऽस्त्यन्यः कोऽपि तव शत्रुः ॥१०२॥ नगरं गृहमुद्यानं, तव तेजोऽनलप्रदीप्तमनुजानाम् । अधिकेनाऽलमिदानीं, चन्दनमपि दाहकं तेषाम् ॥१०३॥ अक्षोभ ! त्वं लुभ्यसि, स्वर्गेऽप्यथवा च नागलोकेऽपि । इन्द्रः क्षुभ्यति शेषः क्षुभ्यति मनसा च वपुषाऽपि ॥१०४॥ आरभ्य मया भक्तिं, त्वयि दासत्वं प्रभो ! समारब्धम् । आरब्धं च समाप्ति, नेता कस्मादुपालम्भः ? ॥१०५॥ भर्त्सनयोग्ये गुरुका, नैव विरूपं वदन्ति मादृक्षे । अहं भवेयमभक्तो, यदि नूनं शिक्षणीयस्तत् ॥१०६।। इति विज्ञप्तिं श्रोतुं, राजा जृम्भज्जनेऽर्धरात्रेऽपि । लक्ष्मिविजृम्भितशयने, विश्रान्ते नैत्रविश्रामैः ॥१०७॥ १२३

Loading...

Page Navigation
1 ... 132 133 134 135 136