Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 113
________________ कथा अनुशासनम् सा. जयनन्दिताश्री: द्वितीयविश्वयुद्धस्येयं कथा । जर्मनीदेशो विश्वयुद्धस्य प्रबलतमो देश आसीत् । जर्मनीदेशीयैर्बहवो देशा युद्धे पराजित्य सर्वत्र निजशासनं प्रसारितमासीत् । चिरकालं युद्धकरणाय सैनिकानां प्राचुर्यमावश्यकम् । अतः समग्रे देशेऽपि घोषणां कृत्वा जनाः सैन्ये नियोज्यन्ते स्म । एकदैकस्तर्कशास्त्राध्यापकः कश्चन महाविद्यालयस्य प्राध्यापको सैन्याधिकारिणां दृष्टिपथे समागतः । तैर्बलादपि स सेनायां नियुक्तः । तस्य शस्त्रास्त्रप्रयोगप्रशिक्षणं युद्धभूमौ च निर्भयतया प्रवतर्नार्थं शारीरिकं मानसिकं च प्रशिक्षणं दातुं प्रारभन्त प्रशिक्षकाः । प्रथममेव, चलन-स्थगन-धावन-वल्गनादिशिक्षादानं प्रारब्धम् । प्रशिक्षको वदति स्म – 'स्थिरो भव', 'चलो भव', 'दक्षिणदिशि परावर्तस्व', 'वामदिशि परावर्तस्व', 'विपरीतं परावर्तस्व' । सर्वेऽपि सैनिकाः सर्वाः सूचना अनुसरन्ति स्म, किन्तु प्राध्यापकस्तथा न करोति स्म । प्रशिक्षकः पुनः पुनः सूचनाः प्रदत्ते स्म – 'दक्षिणां प्रति चल, ततः पश्चिमां प्रति चल' - इत्यादि। परं प्राध्यापको नाऽनुसरति स्म ताः । स पृच्छति स्म – 'भो महोदय ! दक्षिणां प्रति चलित्वा पुनः पश्चिमां प्रति किमर्थं गन्तव्यम् ? किं वयं दक्षिणदिश्येव प्रस्थातुं नाऽर्हामः खलु ? पुनः पुनः किमर्थं स्थानं परावर्तनीयम् ?' प्रशिक्षकेणोक्तं – 'भोः ! अत्र तर्कस्य प्रश्नस्य वा नाऽवकाशः । यथा कथितं तथा कुरु' । प्राध्यापकः पृच्छति स्म – 'किन्तु महाभाग ! को लाभः खल्वनेन ? मम मतौ त्वेतत् सर्वं निरर्थकं प्रतिभाति' । १०२

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136