Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
| मर्म नर्म
(न्यायालये) वृद्धा अहं मम पत्युः सकाशाद् दाम्पत्यविच्छेदं (Divorce) प्राप्तुमिच्छामि । न्यायाधीशः अरे ! एतावति वयसि ? किमर्थं वा ? वृद्धा स यदाऽपि कुपितो भवति तदा यत् किमपि यथा तथा वा वदति तत् सर्वमपि शृणोम्यहं
विना प्रतिवचनम् । न्यायाधीशः तत्तु सर्वथोचितं खलु ! परमत्र दाम्पत्यविच्छेदस्य वार्ता कथमायाता ? वृद्धा किन्तु यदाऽहं किमपि वक्तुमारभे तदा स स्वीयकर्णात् श्रवणयन्त्रं निष्कासयति !!
मित्रम् (१) अहमिदं प्रक्षालनफेनकचूर्णं (Washing Powder) विक्रेतुं किं कुर्याम् ? मित्रम् (२) कस्मिन्नपि गृहे गत्वा घण्टिकां वादय । या काचन महिला द्वारमुद्घाटयिष्यति । मित्रम् (१) तत्त्वहं जानाम्येव । ततः किं कर्तव्यम् ? मित्रम् (२) एतावदेव वक्तव्यं त्वया - 'बालिके ! तव मातरमाह्वय, अहं फेनकचूर्णं
विक्रेतुमागतोऽस्मी'ति । सा महिला विना प्रतिवचनं ते फेनकचूर्णं क्रेष्यति ।
माधवी
माधवः माधवी माधवः
यदि मया मे मातुर्वचनमवामस्यत तदा त्वया सह विवाह एव नाऽभविष्यत् । तन्नाम ते माता मया सह तव विवाहं निषिद्धवती किल ? आम्, सा तु प्रथमत एवाऽस्माद् विवाहादप्रसन्नैवाऽऽसीत् । हे प्रभो ! मयाऽकारणमेवैतादृशी शोभनस्वभावा स्त्री मनसैवाऽधिक्षिप्ताऽपशब्दैः !
१०६

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136