Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
द्रष्टारोऽब्धाः
सा. संवेगरसाश्रीः
अथैकदा अकब्बरः संसदि प्रश्नमकरोत् - 'जगति के जना अधिकाः - द्रष्टार उत अन्धाः ?' तदुत्तररूपेण विविधैः सांसदैविविधानि समाधानानि कल्पितानि । किन्तु तैरसन्तुष्टोऽकब्बरः प्रतिवेलमिव तदानीमपि वीरबलमुखमपश्यत् स्वजिज्ञासां च प्रादर्शयत् । अपृष्टः सन् कदापि न वदन् वीरबलो राजानं प्रणम्योक्तवान् – 'जगदाधार ! (जहांपनाह) इदमिदानीमेव भवतः प्रश्नस्योत्तरं दातुं न शक्यं, किन्तु मम सर्वथा प्रतीतं यज्जगति खल्वन्धानां सङ्ख्यैवाऽधिकाऽस्ति' ।
अकब्बरेणोक्तं - ‘एवं वा ? तर्हि स्ववचनं सप्रमाणं सिद्धं करोतु' । 'अस्तु स्वामिन् ! श्व एव भवते दर्शयिष्यामि सप्रमाणम्' – इत्युक्त्वा वीरबलो गृहं गतः ।
द्वितीयदिने प्रातरेव वीरबलो दिल्लीनगरस्य प्रधानविपणावेकस्मिन् आपणे एकस्मिन् जीर्णे भग्ने चाऽऽसन्दे उपविश्य तस्यैव समारचनं कर्तुमारब्धः । तस्योभयोरपि पार्श्वयोरेकैको जनः पत्रं लेखनी च गृहीत्वोपविष्टावास्ताम् । तयोश्चैकोऽन्धानां नामावलि लेखितुं, द्वितीयस्तु पश्यतां जनानामावलिं कर्तुमुद्यत आसीत् । तांश्च तथोपविष्टान् दृष्ट्वाऽल्पेनैव कालेन तत्र जनानां सम्मर्द एवोपस्थितः । सर्वेऽपि जनास्तत्राऽऽगत्य वीरबलाय पृच्छन्ति स्म यद् - "भो वीरबल ! भवानत्र किं करोति ?' तदा तत्क्षणमेव वीरबलसमीपे उपविष्टो जनः स्वपत्रे तन्नाम लिखति स्म । एवमेवाऽऽदिनं प्राचलत् । समग्रादपि नगरात् प्रायशः सर्वे जनास्तमापणं समागताः ।
अथैष वृत्तान्तो नृपस्याऽकब्बरस्य कर्णातिथिरभवत् । अतः सोऽपि स्वीयपरिवारेण सह वीरबलं द्रष्टुं समागतः । तेनाऽपि वीरबलाय स एव प्रश्नः पृष्टो यत् – 'वीरबल ! किमिदं भवान् कर्तुं प्रवृत्तः ?' । तदा स तस्योत्तरमदत्वैव लेखकमेकं सम्राजो नाम लेखितुं समादिशत् । तेनाऽपि तत्र पत्रे अकब्बरस्य नाम लिखितम् । शीघ्रमेवाऽकब्बरेण तद्धस्तात् पत्रं कृष्ट्वा पठितम् । पत्रोपरितनभागे शीर्षकमासीत् -
१०४

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136