Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 114
________________ प्रशिक्षकस्तं बोधितवान् – “एवं पुनः पुनरस्माकं निर्देशानुसारं वर्तनेन सैनिकस्य मनः शरीरं चाऽनुशासनानुकूलं भवति, सैनिकः सेनापतेरादेशं नाऽवगणयति, युद्धकाले च स निर्भीकतया निर्विकल्पतया च शत्रुपक्षविनाशार्थं प्रवर्तते । अतोऽनुशासनं शिक्षस्व भोः । एवं पुनः पुनः प्रश्नान् तर्काश्च मा कुरु' । एवं स वारंवारं प्रबोधितोऽपि पुनः पुनः प्रश्नान् तर्काश्च करोति स्माऽनुशासनं च नैव पालयति स्म । ततश्च प्रशिक्षकः सेनानायकमवदत् - 'मान्य ! अयं जनो यथावदनुशासनं न पालयति सर्वेष्वप्यादेशेषु प्रश्नांस्तांश्च करोति । अहं त्वेवं मन्ये यद् - यदा युद्धेऽस्य गुलिकास्त्रप्रयोगार्थं बमप्रक्षेपणार्थं चाऽऽदेशः करिष्यते तदाऽप्ययं विविधान् प्रश्नान् तर्काश्च करिष्यति यथा - "किमर्थं गुलिकास्त्रं प्रयोक्तव्यम् ? शत्रुसैनिकस्य कोऽवाऽपराधो येन स हन्यते ?" - इत्यादि अतो नाऽयं सैनिको भवितुमर्हति' । एतच्छ्रुत्वा सेनानायकोऽवदत् - 'एवं वा ? तर्हि तं पाकशालायां सूपकारस्य सहायकत्वेन नियोजयामः । तत्र स यथानिर्दिष्टं कार्यं करिष्यति । एवं कृते सति, प्रथममेव सूपकारस्तस्याऽऽज्ञामकरोद् यद् - 'भोः ! अस्मात् कलायराशेः लघुकलायानां बृहत्कलायानां च विभाजनं करोतु' । प्राध्यापकः ‘भवत्विति' कथयित्वोपविष्टस्तदर्थम् । द्वे घटिके व्यतीते । सूपकारः समागतः कलायांश्चाऽयाचत । किन्तु प्राध्यापकेनाऽनेन विभागः नैव कृत आसीत् । अतः सूपकारस्तस्मै कुपितः । तदा सोऽवदत् – 'भोः ! मया चिन्तितं यत् – ये मध्यमाः कलायास्ते कुत्र निक्षेप्तव्याः ? लघुषूत बृहत्सु ? इति । परं सम्यङ् निर्णयो न जातः । अतः कार्यं मया नैव कृतम्' । एतदाकोभ्रान्तः सूपकारः सेनानायकसमीपं गत्वा सर्वं कथितवान् । ततः श्रान्तः सेनानायकः प्राध्यापकमाहूय साञ्जलि प्रार्थितवान् – 'भोः महाशय ! भवान् महाविद्यालयमेवाऽलङ्करोतु, देशसेवार्थं तु बहवो जनाः सन्त्येव । सेनायां तु प्रशिक्षणमेवंरीत्यैव प्रदीयते । तेन च मनःस्थितिः परावर्तिता भवति, निर्विकल्पतया च योद्धं समर्थो भवति सैनिकः । तर्ककर्ता तु सेनायामनर्ह एव' । [इयं ह्यस्माकं सर्वेषां कथा । वयं खलु कियदनुशासनं पालयामः ? मनश्चाऽस्माकं कियत्स्थिरं भवति निर्विकल्पं चेति विचारणीयं ननु !] १०३

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136