Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
राधयोक्तं - 'अहो ! मे प्राणवल्लभस्योदरवेदनाशमनार्थमहं निजप्राणानपि दद्याम् । चरणरजसस्तु का गणना ? इदमिदानीमेव मे चरणरजो गृहीत्वा भवान् गच्छतु मम प्राणनाथस्य च वेदनां शमयतु' । नारदः कथितवान् – 'अये ! मुग्धे ! किं भवती न जानाति यद् भगवतः स्वचरणरजःस्पर्शनेनाऽपि नरकगमनं भवेदिति ?' तदा राधया सानन्दं कथितं - 'भो भक्तशिरोमणे ! नाऽहं शास्त्राणि जानामि, तथाऽपि एतावत्तु जानाम्येव यद् यदि मम चरणरजसा मे प्राणवल्लभस्य वेदना यदि शाम्यति तदा मे प्रतिभवं नरकगमनमपि स्वीकार्यम् । नाऽहं नरकगमनाद् बिभेमि' ।
___ एतन्निशम्य विस्मितान्तःकरणो नारदः सत्वरं रजो गृहीत्वा श्रीकृष्णसमीपं गतः, रजश्च भगवतेऽदात् । भगवताऽपि सस्नेहं तत् स्वीकृत्य स्वाङ्गेषु विलिप्तम् । ततश्चोदरवेदना शमं प्राप्ता, भगवांश्च स्वस्थोऽभवत् ।
ततो नारदं दृष्ट्वा स्मयन् श्रीकृष्णोऽवदत् - 'मया तु चिन्तितमासीत् यद् भवानेव मम भक्तेषु मूर्धन्यः, अतो भवान् निजचरणरजो दत्त्वा मे पीडां सत्वरं दूरीकुर्यादिति, किन्तु भवता जगत् सर्वमपि भ्रान्त्वा राधायाश्चरणरज आनीय प्रदत्तम् । अतोऽहं विचारयामि यत् - को वा मम भक्तेषु मूर्धन्यः ? - इति' ।
श्रुत्वैतत् सर्वथा लज्जितो नारदः किमपि कथयितुं नाऽशकत्, तस्य भक्तिविषयकोऽहङ्कारश्च चूर्णीभूतः ।
१०१

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136