Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
दिव्यप्रेम
सा. तत्त्वनन्दिताश्रीः
नारदर्षिणा स्वीये भक्तिसूत्रे - “परमप्रेममये परमात्मनि प्रेमरूपा या प्रादुर्भवेत् सा भक्तिः कथ्यते" - इति भक्तेर्व्याख्या कृता । किन्तु कदाचित् खलूपदेशकः स्वयमेव स्वोपदेशाचरणं न करोति । ततश्च नारदस्याऽपि मनसि भक्तेरहङ्कारो व्याप्तः । यथा “मत्सदृशो भगवद्भक्तो जगत्येव नास्तीति" । एतच्च श्रीकृष्णेन ज्ञातम् । ततः स तं बोधयितुमुपायमेकमचिन्तयत् ।
अन्यदा नारदर्षिः श्रीकृष्णं वन्दितुं समागतः । वन्दनं कुर्वता तेन दृष्टं यद् भगवतो मुखे वेदनाया रेखा दृश्यन्त इति । स भृशमाकुलो जातः, ससम्भ्रमं च भगवन्तं पृष्टवान् – 'भगवन् ! किं जातं भवतः?' । भगवतोक्तं – 'भो ! मामुदरवेदना बाधते' । तत उदरवेदनामसहमानः श्रीकृष्णः इतस्ततो भ्राम्यति स्म । एतद् दृष्ट्वा नारदश्चिन्ताक्रान्तमना भगवन्तमपृच्छत् – 'प्रभो ! अप्यस्ति कश्चनोपायो येन वेदना शाम्येत?' श्रीकृष्णेन कथितम् – 'यदि कश्चिन्मे भक्तो निजं चरणरजो दद्यात्, तदा तद्रजसो लेपनेन मे वेदनाऽपगच्छेत्' ।
श्रुत्वैतन्नारदेन चिन्तितं - 'भगवतः स्वचरणरजसः स्पर्शनेनाऽपि भक्तस्य नरकगमनं निश्चितं, तदा लेपनेन किं स्यात् ? ततो यद्यहं मे चरणरजो भगवते दद्यां तदा नूनमहं नरकगामी । नाऽहं नरके गन्तुमिच्छामि ।' ततः स भगवन्तमकथयत् - 'प्रभो ! एषोऽहं गच्छामि, जगत्येवाऽटित्वा कञ्चन भक्तमन्विष्य तच्चरणरज आनयामि भवतो वेदनां च निवारयामि' । भगवता मन्दं विहस्य तद्गमनमनुमतम् ।
नारदर्षिः किलाऽखिलपृथ्व्यामटितवान् किन्तु नरकभयेन कोऽपि तस्मै चरणरजो दातुं नैवोत्सहने स्म । अत आटमाटं क्लान्तो नारदः प्रान्ते वृन्दावनं प्राप्य गोकुलं गतः । तत्र ग्रामोपान्त एव तेन राधा गोप्यश्चाऽन्या जलमानयन्त्यो दृष्टाः । स सत्वरं राधापाश्र्वं गतः तस्यै च प्रभोर्वेदनाविषयकं वृत्तं कथितवान् चरणरजश्च याचितवान् ।
१००

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136