Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
विवेको बोधश्च
सा. कैरवयशाश्रीः
एकदा कश्चन युवा सुप्रसिद्धमेकं वक्तारमपृच्छत् - 'भवतः सभायां कतिसङ्ख्या जनाः समागच्छन्ति किल?' वक्ता तस्य प्रतिप्रश्नमकरोत् – 'कुतो भवानेवं पृच्छति ?' तेनोक्तं – 'बोधार्थं भोः !' । वक्त्रा सगर्वं भणितं – 'आधिक्येन तु मम प्रवचनं श्रोतुं चत्वारिंशत् सहस्राणि पञ्चाशद् वा सहस्राणि जनाः समागच्छन्त्येव । क्वचिदेव दश पञ्चदश विंशतिर्वा सहस्राणि श्रोतारो भवेयुः' ।
'अथ कदाचित् ततोऽपि लघुसङ्ख्या भवेत् तदा किं स्यात् ?' – युवाऽपृच्छत् । 'तदाऽहं तादृश्यां सभायां पदमपि न धरामि' इति सावज्ञं स वक्ताऽवदत् । 'बाढ'मित्युक्त्वा स युवा ततो निर्गतः ।
पथि गच्छन् स समुद्रतटं प्राप्य तत्राऽटितुमारब्धः । सहसा तस्य दृष्टिपथे समुद्रजले तरन् एको महाकायो मत्स्यः समागतः । स युवा तमपृच्छत् – 'भो मत्स्य ! भवान् एतादृशि विशाले जलनिधौ तरीतुं कथं शक्नोति ?' तेनोक्तं – 'मम तु जन्मैवाऽत्र जातम् । अत्रैव च वृद्धि प्राप्तः । तत् कथं महत्यत्र जलनिधौ तरीतुं न शक्नोमि ? सुतरां शक्नोमि' ।
'अथ कदाचित् कोऽपि भवन्तं लघौ जलाशये नीत्वा मुञ्चेत् तदा किं स्यात् ?' - इति युवा स तं मत्स्यमपृच्छत् । तेन विहस्योक्तं - 'भोः ! मम तु तरणाय जलमेव केवलमावश्यकं, नाऽन्यत् किञ्चित् । तच्च जलं समुद्रेऽपि भवतु, जलाशयेऽपि भवतु, अन्यत्र वा कुत्राऽपि लघौ पात्रेऽपि भवतु, मम तत्र तरणे न काऽपि बाधा । अहं तत्र स्वैरं तरीतुं शक्नोमि' ।
एतत् श्रुत्वा स युवाऽवदत् - 'नूनं भोः ! भवति कियत् सामर्थ्यमस्ति ? भवान् यच्चिन्तयति तत्सर्वं कर्तुं शक्नोति' । मत्स्येन कथितं – 'बन्धो ! अहं तु तिर्यङस्मि, तत्राऽपि जलचरः, भवांस्तु मनुष्यः । अहं तु केवलं जले तरीतुं शक्तः । भवान् पुनः जले स्थले आकाशे वा यत्किमपीच्छति तत् सर्वं कर्तुं समर्थः । तथाऽन्यैस्तत् कारयितुमपि शक्तः' ।
एतत् श्रुत्वा स युवाऽचिन्तयत् – 'कस्य विवेको बोधश्च गरीयान् ? वक्तुर्वा मत्स्यस्य वा ?'
२८

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136