Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 108
________________ कथा नापितस्य चातुर्यम् मुनिभाग्यहंसविजयः एकदा काशीदेशस्य राज्ञा विद्वत्सम्मेलनस्याऽऽयोजनं कृतम् । विविधविषयेषु शास्त्रेषु पारङ्गताः पण्डिताश्चाऽऽमन्त्रिताः । सम्मेलनस्य भव्यदिनमुपस्थितम् । काशीनगरं प्रति नैके पण्डिता आगच्छन्ति स्म। व्यवस्थापकैनिर्दिष्टे आवासे सर्वे तिष्ठन्ति स्म । स्वस्थतां च प्राप्नुवन्ति स्म । काशीनगरस्य समीपे पथ्थमपुराभिधानो ग्रामोऽभवत् । तत्र धमेल इति नाम्ना नापितो वसति स्म । तत्सम्मेलने गन्तुं सोऽप्युत्सुकोऽभवत् । निजपेटिकायां कलशमस्त्रं च निधाय स काशी प्रस्थितः । तत्र चाऽऽगतान् पण्डितान् मिलित्वा तेषां संलापांश्च श्रुत्वा स शुक इव किञ्चित् संस्कृतसंभाषणमशिक्षत । __ इतश्च सम्मेलनस्य प्रमुखपदे को नियोक्तव्यः ? इति निश्चेतुमधिकारिणः प्रत्येकं पण्डितस्याऽऽवासं गत्वा पृष्टवन्तः - 'भो महोदय ! भवान् कस्मिन् विषये पारगामी अस्ति' ?। एतत् श्रुत्वा पण्डिताः स्वस्य परिचयं दातुमारब्धाः । एकोऽवदत् - "अहं न्यायशास्त्रे निपुणोऽस्मि' । अन्येनोक्तं - 'मया व्याकरणशास्त्रमामूलचूलं पठितम् । तृतीय उक्तवान् - 'अहं तर्क-साहित्यक्षेत्रे निष्णातः' । एवं प्रत्येकस्य परिचयं कुर्वाणा अधिकारिणो यथाक्रमं तस्य धमेलाभिधनापितस्य समीपमागताः । तैः सोऽपि पृष्टः । स उवाच - 'अहं सकलशास्त्रसम्पन्नोऽस्मि' । तच्छ्रुत्वा सर्वे अधिकारिणः सन्तुष्टाः सन्तस्तस्य नाम पृष्टवन्तः । सोऽवदत् - 'पण्डितो धर्मचन्द्रोऽहम्' । एतैश्च मिथो विचार्य सम्मेलनस्य प्रमुखपदे नियुक्तः सः । स हर्षावेशेन पूर्णः 'मां सर्वे सत्करिष्यन्ति' इति विचारेण च प्रमुदितश्चाऽपि । शुभमुहूर्ते सम्मेलनं प्रारब्धम् । अनेके विषयाश्चर्चिताः । तेषां च पुष्ट्यर्थं विविधाः शास्त्रपाठाः परीक्षिताः । खडनमण्डनघोषैश्चाऽविद्वांसो भीता इव कम्पिता इव च जाताः । एवं सति धमेलो मूक इव किमपि न वदति स्म । तस्य चित्ते शून्यावकाशोऽभूत् । अथैकस्य प्रश्नस्य कं निर्णयं कुर्याम ? इति चिन्ता सर्वेषां मनस्युद्भूता । ततस्तैर्मिलित्वा प्रमुखस्थाने निषण्णो धमेलः पृष्टः । तदा स्तब्धगात्रः शिथिलाङ्गोपाङ्गश्च स तूष्णींभूय न किमप्युत्तरं ददाति स्म । ततश्च राज्ञः साशङ्के कोपरक्ते नयने दृष्ट्वा स भयविह्वलो जातः । राजा पृष्टः स - 'कस्यां पाठशालायां त्वयाऽध्ययनं कृतम् ?' धमेल उवाच - 'अहं कामपि पाठशालामध्ययनार्थं नैव गतो न वा मयैकाऽपि पाठशाला दृष्टा च' । राजाऽपृच्छत् - 'तर्हि किमर्थं सकलशास्त्रसंपन्नोस्मि' इत्युक्तं त्वया ?' ततः स उक्तवान् - 'मया स-कलश-अस्त्रसंपन्नोऽस्मि इत्याशयेनोक्तं तत्' । तस्य मुखादकल्पनीयमर्थं श्रुत्वा सर्वे गम्भीरपण्डिता अपि मुक्तमनसाऽट्टहासं चक्रुः । वादसभा समाप्ता । हास्यसभा प्रारब्धा । तत्क्षणमेव स नापितः सभाया निष्कासितः ।

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136