Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 110
________________ कथा दुहितुः प्रेम सा. तत्त्वनन्दिताश्रीः एका बालिका आसीत्, तस्या नाम जेनी आसीत्, सा च पञ्चवर्षवया आसीत् । एकदा सा अचिन्तयत् यत् - श्वो मम पितुर्जन्मदिनमस्ति । ततोऽहं पित्रे किमपि उपायनं दास्यामि। किन्तु मम समीपे किमपि नास्ति । ततः सा विषण्णा जाता । सहसैका युक्तिस्तस्या मनस्युदगच्छत् । सा क्रीडनकानां लघ्वी पेटिकामेकां रिक्तामकरोत् । तस्या उपरि शोभनं वर्णपत्रमवेष्टयत् । तद् वर्णपत्रं महाय॑मासीत् । तदैव तस्याः पिता सहसा गृहमागच्छत्, तां च बहुमूल्यवत् पत्रं व्यर्थं कुर्वन्ती दृष्ट्वा तस्यै – अकुप्यत्, अताडयच्च ताम् । तथापि जेनी सर्वमपि तदसहत । द्वितीयदिने प्रातःकाले जेनी उपायनं गृहीत्वा पितुः पार्श्वमागच्छत्, वदति स्म च – 'हे पितः ! अद्य भवते जन्मदिनस्य शुभेच्छां समर्पयामि, इदमुपायनमपि च भवत्कृतेऽस्ति । तद् भवान् स्वीकरोतु ।' जेन्या प्रदत्तं तदुपायनं दृष्ट्वा पिता पूर्वदिने कृतस्य क्रोधस्य कृते भृशं खेदमन्वभवत् । स ब्रवीति स्म - जेनि ! अहं ते धन्यवादान् समर्पयामि कोपस्य च कृते मां त्वं क्षमस्व । तदनन्तरं तस्याः पिता पेटिकामुद्घाट्याऽपश्यत् । सा पेटिका रिक्ताऽऽसीत् । तेन पुनः स तस्या उपर्यकुप्यत्, अकथयच्च - त्वं किमेतदपि न जानासि, यत् कस्मै अपि रिक्ता पेटिका उपायनरूपेण न दीयते? । जेन्या नेत्रयोरश्रूणि आगच्छन्, सा सविषादमवदत् - हे पितः ! पेटिका रिक्ता नाऽस्ति । अहं पेटिकायां भवत्कृते उपायनरूपेण शतं चुम्बनानि मुक्तवती । एतच्छ्रुत्वा सर्वथा विगलितहृदयः साश्रुनयनश्च पिता जेनी स्नेहेनाऽऽलिङ्ग्याऽकथयत् - जेनि ! मया पुनरपि तवाऽपराधः कृतः । कृपया मां क्षमस्व । मया तवाऽऽशयः सर्वथा नाऽवगतः । तदनन्तरं जेन्याः पिता सदा स्वस्य समीपे तां पेटिकां रक्षति स्म । यदा कदाऽपि जीवने स निराशामनुभवेत् तदा पेटिकामुद्घाट्य जेन्याः स्नेहं स्मरति स्म, आनन्दं च अनुभवति स्म ।

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136