Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
संस्कारप्रपा
मुनिः अक्षयरत्नविजय
(१) जीवनं नाम प्रहेलिका
अस्माकं जीवनं वर्तते विस्मयप्रदम् । कदाचित् तत् प्रतिभासते सुखमयं, किञ्च कदाचित् प्रतिभासते तत् समस्यामयम् । यद्यपि बहुधा तु जीवनस्वरूपं दृश्यते समस्यामयमेव, अत एव प्रायः सर्वे जीवा विपद्ग्रस्ता दृश्यन्तेऽस्मिन् जगति । एका समस्या निराक्रियतां, तावदपरसमस्या उद्गच्छेत् - प्रायः अयमेवाऽस्माकं जीवनपरिचयः । अस्यां वास्तविकतायां वयं किञ्चिदपि परिवर्तितुं नाऽशक्नुमः । तदाऽस्माभिः किं कर्तव्यम् ? यदा समस्याऽऽगच्छति, आपत्तिः प्रभवति तदा वयं समस्यामुक्तेर्मार्गाय प्रयतामहे । किन्तु कदाचिदतियत्नानन्तरमपि समस्याविरामो न भवति तदा वयं नैराश्यं प्राप्नुमः । परं तदा भग्नाशता न भजनीया। अपि तु चिन्तनीयं यत् सर्वसमस्याया निराकरणं तु केनाऽपि न प्राप्तं स्वजीवने । अतो न कर्तव्या ग्लानिः । सर्वदा सुखेनैव स्थातव्यम् । अस्मिन्ननुसन्धानेऽवतरति स्मरणपथे प्रसङ्ग एकः प्रेरणास्पदम् -
कस्यचित् प्रसिद्धगणितज्ञस्येयं कथा । एकदा तस्य गणितज्ञस्य सूनोर्जन्मदिनमासीत् । गणितज्ञः स्वस्य प्रियपुत्रस्य कृते जन्मदिनस्योपहारं क्रेतुं विपण्यां कञ्चिदापणं गतः । तत्र बहव उपहारा दृष्टास्तेन, पश्चादुपहाररूपेण तेनैकस्याः कष्टपूर्णप्रहेलिकायाश्चयनं कृतम् । अस्याः प्रहेलिकायाः किमपि निराकरणं विद्यमानं नाऽसीत् । केवलं क्रीड्यतां समयव्ययश्च क्रियतामित्येव तत्प्रहेलिकाया आशयो वर्तते स्म ।
आपणिकोऽतिविस्मयमनुभूतवान् । विस्मयपूर्णनेत्राभ्यां स निरीक्षितवान् गणितज्ञम्, उक्तवांश्च - "मान्याः ! भवन्तस्तु ख्यातिप्राप्तपण्डितवर्याः सन्ति । भवद्भिस्तु ज्ञातमेव यदस्याः प्रहेलिकायाः किमपि निराकरणं न विद्यते । तथाऽपि भवद्भिरस्याः प्रहेलिकायाश्चयनं क्रियते ?"
"ओम् ।" - गणितज्ञो ब्रूतवान् – “इदमेव तु कारणम् । यतोऽहं प्रहेलिकामिमां मम पुत्राय दातुमिच्छामि । अस्याः प्रहेलिकाया माध्यमतोऽहं ज्ञापयिष्यामि तं यदस्मज्जीवनेऽपि काश्चित् समस्या एतादृश्यः प्रवर्तन्ते, यासां समाधानं बहुप्रयत्नैरपि न प्राप्यतेऽस्माभिरस्याः प्रहेलिकाया इव । अतस्त्वज्जीवने यदि कदाचिदेतादृशः प्रसङ्गः समुपस्थितो भवेत्तदा निराशता उद्विग्नता वा न सेव्या त्वया, अपि तु

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136