Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 99
________________ असौ साङ्केतिको निर्णयः कियान् समीचीन आसीदित्येतद् ज्ञापयति, पुष्टीकरोति च वर्तमानकालीनं (अद्यतन) B.B.C. - News - इत्यस्य संशोधनम् । यथा - "विश्वस्य कामपि दिशं पश्येम, पत्तनपुरसदृशं नगरं कुत्राऽपि नाऽस्ति । अत्रत्यैर्भू-वायु-जलैर्यः संवधितो जनः, स शताधिकमायुः सुखेन लभते । अस्यां भूमौ यानि खनिजानि सन्ति, तानि मानवस्य जीवने नवीनमुत्साहं जनयन्ति, देहस्य वार्धक्यं जीर्णत्वं च रुन्धन्ति, दीर्घकालं यावद् यौवनं स्थिरीकुर्वन्ति च । अत्रत्यं वातावरणं ह्यस्थिजालं श्वसनतन्त्रं च दृढीकरोति, रक्तं तनूकरोति श्वास-क्षयादिरोगेभ्यो रक्षति च । अत्रत्यस्य राज्या वापिका (राणकी वाव) नाम्ना ऐतिहासिकस्य स्थलस्य परिसरे द्वित्रमासपर्यन्तं वासेनाऽपगच्छन्ति बहवो रोगाः । वापिकाया जलं हि श्वासकासौषधतुल्यमेव' । ईदृशस्य सौभाग्यवतो गुर्जरराष्ट्रस्य प्रधाननगरस्य पत्तनपुरस्य राजसिंहासने वैक्रमीये ८२१मिते संवत्सरे वैशाखशुक्लतृतीयादिने सोमवासरे, श्रीदेवीनाम्न्या जैनश्राविकया कृततिलक ऐदम्प्राथम्येन श्रीवनराजचापोत्कट:(चावडा) राजपदमलङ्कृतवान् । ___पत्तनपुरमीदृशं भव्यमूर्जस्वि चाऽस्ति । तस्य भूमिः शताधिकैजिनालयैः, अनेकैरप्यन्यैर्देवमन्दिरैमण्डिताऽस्ति, अनेकैः कविवरैर्ग्रन्थसर्जक-विद्यापुरुषैनिजज्ञानरसेन सिक्ताऽस्ति । राज्यधूश्चाऽस्य श्रद्धापूतैः प्रजावत्सलैर्यशस्विभिश्च राजभिरूढाऽस्ति । अस्य राज्यस्य सर्वेऽपि राजानः शैवधर्मिणः सन्तोऽपि सर्वधर्मसहिष्णुतयाऽमितेन द्रव्यव्ययेन सर्वधर्मदेवालयान् निर्मापितवन्तः सर्वमतीयान् गुरून् पूजितवन्तश्च । केवलं जैनदेवालयानेवाऽधिकृत्य विचारयामस्तदाऽपि तेषां राज्ञामुदारदृष्टिरस्माकं हृदयमाह्लादयति । यथा किल राज्ञा वनराजेन ८०२ प्रमिते वैक्रमे वर्षे वनराजविहारः इति नाम्ना पार्श्वनाथजिनालयो निर्मापितो योऽद्यत्वे पञ्चासरापार्श्वनाथजिनालय इति नाम्ना प्रसिद्धोऽस्ति । ततो वैक्रमे ९४२तमे वत्सरे मूलराजेन मूलराजवसतिरित्यभिधं जिनमन्दिरं कारितम् । तदनन्तरं ९९८तमे वर्षे राज्यारूढेन चामुण्डराजेन नैकानि जिनभवनानि निर्मापितानि । ततस्तु १०८८तमे संवति विमलमन्त्रिणाऽर्बुदगिरौ देवकुलपाटके जगद्विश्रुतकलाकलापकलितं विमलवसतिरिति जिनसद्म कारितम् । तत्पश्चात् ११४६तमे वर्षे मुञ्जालमन्त्रिणा मुञ्जालवसतिः ११५०तमे च वर्षे शान्तनुमन्त्रिणा शान्तनुवसतिरित्याख्ये जिनमन्दिरे निर्मापिते । ततश्च त्रयोदशशतस्याऽऽरम्भे राजराजेश्वरेण परमार्हतबिरुदधारिणा महाराजकुमारपालेन कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यस्य सदुपदेशं शिरस्यवधार्य तारणगिरि(तारंगा)प्रमुखेषु विविधस्थलेषु शतशो जिनालया निर्मापिताः । अपि च, कुमारपालमहाराजस्य त्वहिंसापालने तथाऽभिरुचिरासीद् यद् अष्टादशसु देशेषु विस्तृते तत्साभ्राज्ये मृ-हन्-वध्-हिंस्-घात्-प्रभृतीनां धातूनां तत्साधितशब्दानां चाऽपि प्रयोगो निषिद्ध आसीत् । यूका-पिपीलिका-कीट-मूषकादीनामपि क्षुद्रजन्तूनां घातका दण्डारे अभवन् । एतस्या जीवदयायाः ८८

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136